SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ શ્રી સ્વાથધિગમસૂત્ર અધ્યાય-૭ સૂત્ર-૪ ऐहिकप्रत्यवायप्रदर्शनार्थं शकुनिरिवेत्यादिदृष्टान्तग्रन्थोपन्यासः परप्रत्यायनप्रयोजनः, मांसपेशीति मांसखण्डमेव दीर्घ पेश्युच्यते, आदानमोक्षणव्यापारवत्त्वात् पादोऽपि हस्त एव शकुनेः, मांसपेशी हस्तेऽस्येति मांसपेशीहस्तः, व्यधिकरणानामपि गमकत्वाद्बहुव्रीहिः, कण्ठेकालवत्, अन्येषां क्रव्याच्छकुनानामिति, आममांसभक्षाः क्रव्यादोऽभिधीयन्ते, कृतविकृतशब्द उपपदे क्विप्प्रत्ययादेः पृषोदरादित्वाच्च कृतविकृतशब्दस्य क्रव्यादेशः, कृतविकृतपक्वमांसभक्षास्तु स्युः क्रव्यादाः, कर्मण्यणेवेति, मांसपेशीयपरिग्रहहेतोः क्रव्यात्पतत्रिणामिहैव गम्योऽभिभवनीयश्चञ्चुचरणनखमुखपक्षतिप्रहतः परिशटत्पतत्रव्रजः शरणार्थी वियति नश्यति निरालम्बनः, परिश्रान्तस्तरुशिखराद्युपघ्नप्राप्तिसमनन्तरमाक्रम्य बलादपहृतमांसपेशीकः किञ्चिदुच्छसन् कण्ठागतप्राणः कृच्छ्राद् विमुच्यते शकुनिभिः, तस्करादीनां च गम्यः परिग्रहवान्, आदिग्रहणाद्राजदायादादिपरिग्रहः, तस्करादयः प्रसभं चोर्येण चापहारमाचरन्त्यभिभूयेति, अर्जनम्-उपादानमुपात्तस्य परिपालनं रक्षणं क्षयो-नाश इति, अर्जनादिकृतांश्च परिग्रहवानवाप्नोति दोषान्, तत्रार्जनं न्याय्यमन्याय्यं च, न्याय्यं वाणिज्यकर्मकरत्वकृष्याधुपायं, तच्चातिक्लेशयुक्तं, अन्याय्यं तस्करत्वाद्युपायसाध्यं, तत्रापि वधबन्धविशसनादिदोषाः, रक्षणमपि सन्त्रस्तचेतसो रात्रिंदिवं नृपदहनतस्करदायादमूषिकादिभ्यः क्लेशबहुलं, क्षयोऽप्युपभोगादपुण्योदयाच्च, तत्रोपभोगकालमधिकृत्येदमाह-न चास्य तृप्तिर्भवतीन्धनैरिवाग्नेरिति उपभुञ्जानस्यापि चास्य तृप्तिसम्भाव्याऽग्नेरिन्धनैरिव प्रक्षिप्यमाणैः प्रवृद्धज्वालाकलापस्य, प्रत्युत वृद्धिरेव जायते, एवं परिग्रहवतः प्राज्यद्रविणराशेरपि प्रतिक्षणमपूर्वापूर्वद्रव्यावाप्तौ सन्ततैवेच्छा विजृम्भते, इच्छायाश्चानिवृत्तौ तृप्त्यभावः, न चातृप्तः सुखलेशेनापि युज्यत इति, अपुण्योदयादपि क्षयो भवति विभवस्य, दक्षिणोत्तरमथुराधिवासिवणिग्द्वयप्राप्तिप्रणाशाख्यानकाद्भावनीयः, तन्नाशे
SR No.022491
Book TitleTattvarthadhigam Sutram Part 07
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages280
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy