________________
૧૬૦
श्री तत्वाषिरामसूत्र अध्याय-७- સૂત્ર-૧૬ सम्बन्धि दिक्षु वा व्रतं एतावत्सु पूर्वादिदिग्भागेषु मया गमनाद्यनुष्ठेयं, न परत इति, नामशब्दो वाक्यालङ्कारार्थः, एतदेव स्पष्टतरं विवृणोतितिर्यगित्यादिना तिर्यगिति पूर्वादिका दिशोऽष्टौ निर्दिष्टाः, ऊर्ध्वमिति नवमी दिक्, अध इति दशमी, एवमासां दशानां दिशां यथाशक्ति गमनपरिमाणाभिग्रह इति, यथाशक्तीति यथासामर्थ्य कार्यापेक्षया गमिक्रियादिपरिमाणं एतावती दिक् पूर्वेणावगाहनीया, एतावती च पूर्वदक्षिणेनेत्यादि, अभिग्रहोऽभिमुखग्रहणं, आभिमुख्यं तु निश्चित्य ज्ञानेन गुणदोषाविति गृह्णाति, ततः को गुणोऽवाप्यत इत्याह-तत्परतश्चेत्यादि, गुणमुपदर्शयति प्रष्टुः, चशब्दः क्रमावद्योतनार्थः, तस्माद्गमनपरिमाणात् परतः सर्वभूतेषु स्थावरजङ्गमाख्येषु पृथिव्यादिद्वीन्द्रियादिषु अर्थः-प्रयोजनमतिशयोपकारि, सत्यपि तस्मिन् न तत्र गमनाद्यनुतिष्ठति, अतस्तत्रत्यभूतानामनुपमर्दः अर्थतः अनर्थतश्चेति, चशब्दः समुच्चयेऽनर्थः-अप्रयोजनं विना प्रयोजनेन भूखननोल्लिखनजलावगाहनवनस्पतिच्छेदकृकलासादिव्यापादनादिरनेकविधः, स एष सर्वः सावद्यः सपापो योगो व्यापारः कायादिकस्तेन चैव परिमाणात् परतो निरस्तेन निक्षिप्तो निरस्तो भवतीति गुणावाप्तिः । सम्प्रति क्रमनिर्दिष्टं देशव्रतमुच्यतेअत्राह-वक्ष्यति भवान् देशव्रतं, पारमर्षप्रवचनक्रमः कैमर्थ्याद्भिन्नः सूत्रकारेण ? आर्षे तु गुणव्रतानि क्रमेणोद्दिश्य शिक्षाव्रतान्युपदिष्टानि, सूत्रकारेण त्वन्यथा, तत्रायमभिप्राय:-पूर्वतो योजनशतपरिमितं गमनमभिगृहीतं, न चास्ति सम्भवो यत् प्रतिदिवसं तावती दिगवगाह्या, ततस्तदनन्तरमेवोपदिष्टं देशव्रतमिति, देशे-भागेऽवस्थापनं प्रतिदिनं प्रतिप्रहरं प्रतिक्षणमिति सुखावबोधार्थमन्यथाक्रमः,
सम्प्रति भाष्येण स्पष्टयत्येनमेवार्थ-देशव्रतं नामेत्यादि, दिक्परिमाणस्यैकदेशो देशस्तद्विषयं व्रतं देशनियमस्तच्च प्रयोजनापेक्षमेकादिदिक्कं सर्वदिक्कं वा, नामशब्दो वाक्यभूषणार्थः, देशनिरूपणार्थमाह-अपवरक