SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ સૂત્ર-૧૬ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ ૧૫૯ ન્યાયથી આવેલા અને કલ્પનીય એવા અન્નપાનાદિ દ્રવ્યોનું દેશ-કાળશ્રદ્ધા-સત્કાર-ક્રમથી યુક્ત પ્રકૃષ્ટ-આત્માનુગ્રહબુદ્ધિથી સંયતોને દાન ४२ ते माथसंविमा व्रत छ. (७-१६) । टीका- कृतद्वन्द्वा दिगादयस्तैः सम्पन्नः-समृद्धः संयुक्तः, चशब्दः समुच्चयवचनः, प्रतिपन्नाणुव्रतस्यागारिणस्तेषामेवाणुव्रतानां दादापादनाय शीलोपदेशः, शीलं च गुणशिक्षाव्रतं, तत्र गुणव्रतानि त्रीणि दिग्भोगपरिभोगपरिमाणानर्थदण्डविरतिसंज्ञान्यणुव्रतानां भावनाभूतानि, यथाऽणुव्रतानि तथा गुणव्रतान्यपि सकृत् गृहीतानि यावज्जीवं भावनीयानि, शिक्षापदव्रतानि सामायिकदेशावकाशिकपौषधोपवासातिथिसंविभागाख्यानि चत्वारि, प्रतिदिवसमनुष्ठेये द्वे सामायिकदेशावकाशिके, पुनः पुनरुच्चार्येते इतियावत्, पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ, न प्रतिदिवससमाचरणीयौ, पुनः पुनरष्टम्यादितिथिष्वनुष्ठीयेते इति, शिक्षाऽभ्यासस्तस्याः पदानि-स्थानानि अभ्यासविषयास्तान्येव व्रतानि शिक्षापदव्रतानीति, गुणव्रतानि तु न प्रतिदिवसग्राह्याणि, सकृद्ग्रहणान्येव, गुण्यन्ते-सङ्ख्यायन्त इति गुणा-दिगादयो, दिशापरिमाणं पूर्वादिका दिशः तासामिष्टसङ्ख्याव्यवच्छेदेन परतः प्रत्याख्यानमातिष्ठते, एवमुपभोगपरिभोगमपरिमितं सङ्ख्याय परिमाणेऽवस्थापयति, शेषं प्रत्याचष्टे, तथाऽनर्थदण्डमुपयोगमात्रव्यतिरिक्तस्य सकलस्य निवृत्तिमभ्युपैति, परिगुणयतो गुणव्रतसंज्ञा, एवमेतानि शिक्षाव्रतादीनि देशकालावस्थापेक्षाणि शीलमुत्तरगुणाख्यानि अणुव्रतपरिवृद्ध्यर्थमेव भावनीयानीति। 'एभिश्चे'त्यादि भाष्यं, एभिरिति दिगादिव्रतैः आदिग्रहणात् शिक्षापदव्रतैश्च सम्पन्नोऽगारी व्रती भवति, कानि पुनस्तानि दिगादीनि व्रतानीत्याह-तत्र दिग्व्रतं नामेत्यादि, तत्रतेषु उत्तरगुणेषु सप्तसु दिग्व्रतं नाम दिशोऽनेकप्रकाराः शास्त्रेऽभिहिताः, तत्र सूर्योदयोपलक्षिता पूर्वा शेषाश्च पूर्वदक्षिणादिकास्तदनु क्रमेण, दिशां
SR No.022491
Book TitleTattvarthadhigam Sutram Part 07
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages280
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy