________________
ममाणनयतत्त्वालोकालङ्कारः। विरुद्ध कार्य कारण स्वजाव व्यापक सहचरानुपलम्भभेदात्॥ १०२ ॥ विरुद्ध कार्यानुपलब्धिर्यथाऽत्रशशरिणि रोगातिशयः समस्ति निरोगव्यापारानुपलब्धेः ॥ १०३ ॥ विरुद्वकारणानुपलब्धिर्यथा विद्यतेऽत्र प्राणिनि कष्टमिष्टसंयोगाभावात् ॥ १०४ ॥ विरुद्धस्वभावानुपलब्धियथा वस्तुजातमनेकान्तात्मकमेकान्तस्वभावानुपलम्भात् ॥ १०५ ॥ विरुद्वव्यापकानुपलब्धिर्यथाऽस्त्यत्र च्छाया औष्ण्यानुपलब्धेः ॥ १०६॥ विरुद्धसहचरानुपलब्धियथा ऽस्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनानुपलब्धेः॥ १० ॥ इतिस्मरणप्रत्यभिज्ञानतर्वानुमानस्वरूपनिर्णयोनाम
तृतीयः परिच्छेदः ॥ ३ ॥ आप्तवचनादाविर्भूतमर्थसंवेदनमागमः ॥ १॥ उपचारादाप्तवचनश्च ॥ यथा समस्त्यत्र प्रदेशे रत्ननिधानं सन्तिरत्नसानुप्रभृतयः॥३॥