SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो मयोपदेशः । wwwwwwwwwwrrrrr नयामृत०-भजनाया इति । भजनाया विकल्परूपत्वादेवं सस्ये कतरमादाय विनिगन्तुं शक्यत्वात् , व्यवस्था- यो यदीया प्रदेशः स तदीय एवेतिलक्षणा, अपैति- अपगच्छति, धर्मास्तिकायादि. प्रदेशस्याधर्मास्तिकायादिस्वेनापि भजनीयत्वप्रसङ्गात् । न च वस्तुनि सत्त्वा-ऽसत्वादिस्याद्वादभजना. वदनोपपत्तिः, तत्राप्येकान्तासम्बलिताऽनेकान्ताश्रयणे विकल्पमात्रस्य दुर्वारत्वात् ; तद्वदेवात्र स्यात् . पदेनैकान्तसम्बलनमपि भविष्यतीति चेत् ? न- उद्देश्य विधेयविशेषपर्यवसानेन तस्य वक्ष्यमाण एव पर्यवसानात् , तत्-तस्मात् कारणात्, धर्मे-धर्मास्तिकाये, यः प्रदेशः स धर्मो-धर्मास्तिकाय इति सप्तमीतत्पुरुषेण, धर्मास्तिकायश्चासौ प्रदेशो धर्मास्तिकाय इति कर्मधारयेण वा निर्णयः कर्तव्यः । एकोनषष्टितम-षष्टितमपद्याभ्यां साम्प्रतनयाख्यस्य प्रथमस्य शब्दनयस्य वक्तव्यमावेदितम् , तत्र प्रथमपद्यं विवृणोतिभजनाया इतीति-'स्याद्धर्मास्तिकायस्य प्रदेशः, स्यादधर्मास्तिकायस्य प्रदेशः' इत्येवंरूपाया ऋजुसूत्राभिमतभजनाया इत्यर्थः । 'विकल्पस्वाद' इति मूलमधृत्वैव विवृतम्-विकलारूपत्वादिति, 'एवम्' इत्यस्य विवरणम् - एवं सतीतिमनाया विकल्परूपत्वे सतीत्यर्थः । एकतरमादायेति यथा यवैर्यजेत, ब्रीहिभिर्वा यजेत' इति विकल्पस्थले यवकरणकयागाद् यदेवाष्टं तदेव ब्रीहिकरणकयागादपि, न तु यादृशफल जनकं यवकरणकयागप्रभवमदृष्टं तद्विजातीयफल जनक ग्रीहिकरणकनागप्रभवमदृष्टम् , तथा प्रकृतेऽपि य एवं प्रदेशो धर्मास्तिकायस्य स एव प्रदेशोऽधर्मास्तिकायस्यैवमाकाशास्तिकायादेरपि प्रसज्येतेत्यर्थः । एवं च व्यवस्थाविलयः स्यादित्याह-व्यवस्थेति । किंस्वरूपा व्यवस्थेत्यपेक्षायामाह-यो यदीय इति-यः प्रदेशो धर्मास्तिकायसम्बन्धी स धर्मास्तिकायसम्बन्ध्येव नाधर्मास्तिकायादिसम्बन्धी, एवं यः प्रदेशोऽधर्मास्तिकायसम्बन्धी सोऽधर्मास्तिकायसम्बन्ध्येव न धर्मास्तिकायादिसम्बन्धीत्येवस्वरूपा व्यवस्थेत्यर्थः । भषैतीत्यस्य विवरणम्अपगच्छतीति । तत्र हेतुमाह-धर्मास्तिकायादीति-धर्मास्तिकायप्रदेशोऽधर्मास्तिकायीय आकाशास्तिकायीय इत्येवं विकल्पनीयत्वप्रसङ्गादित्यर्थः। ननु यथैकस्मिन्नेव वस्तुनि किञ्चिदपेक्षया सत्त्वं किञ्चिदपेक्षयाऽसत्वमित्येवं सत्त्वाऽसत्त्वादिस्याहादभनना भवति तथैकस्मिन्नपि प्रदेशे धर्मास्तिकायीयत्वादिभजनोपपत्तिः स्यादित्याशङ्कय प्रतिक्षिपति-न चेति-अत्र प्रदेशगतधर्मास्तिकायीयत्वादिविमर्श । उपपत्तिः प्रदेशभजनीयत्वोपपत्तिः। सत्त्वाऽसत्त्वायमेकान्तोऽप्येकत्र वस्तुन्येकान्तः, तस्य चानेकान्तवं नयापेक्षयकान्तत्वं प्रमाणापेक्षयाऽनेकान्तत्वमिति कृत्वा, सर्वथाऽनेकान्तस्यानेकान्तस्यानेकान्तत्वे सत्त्वादेरपि सर्वथैव वस्तुनि सत्त्वासत्त्वापत्या सत्त्वादिसंवलिताऽसत्त्वादिलक्षणानकान्ततैव स्यान त्वमुकापेक्षया सत्त्वमेव मुकापेक्षया चासत्त्वमेवेत्येवमेकान्ततापीति यस्य यदपेक्षया सत्त्वं तस्य तदपेक्षयाऽसत्त्वादिकमपीत्येवं विकल्पनीयत्वमेव स्थात्, न तु यस्य यदपेक्षया सत्त्वं तस्य लदपेक्षया सत्त्वमेव, तस्य यदपेक्षयाऽसत्वं तस्य तदपेक्षयाऽसत्त्वमेवेत्येवमवधारणात्मकैकान्ताप्रवेशेन याऽनेकान्तव्यवस्था सा भज्येत, अतः सत्त्वासत्त्वादिस्याद्वादभजनाऽप्येकान्तसंवलिनाऽनेकान्तरूपतायामेवोपपन्ना नान्यथा, एवं चेकान्तासंवलितानेकान्तस्य सत्त्वादावप्यभावान तदृष्टान्तेन प्रदेशभजनीयत्वोपपत्तिरिति निषेध हेतुमुपदर्शयतिसत्रापीति-सत्त्वासत्त्वादिस्याद्वादभजनायामपीत्यर्थः । ननु यथा सत्त्वासत्त्वादिस्याद्वारे एक न्तसंवलनं तथा प्रकृतेऽपि भविष्यतीति प्रदेशभजनीयत्वोपपत्त्या व्यवस्था स्यादित्याशङ्कते-तद्वदेवेति-सत्त्वासत्त्वादिस्याद्वादभजनायामेकान्तसंवलितानेकान्ताश्रयणवदेवेत्यर्थः । अत्र प्रदेशभजनीयत्वे। स्यात्पदेनति-स्याद्धर्मास्तिकायस्य प्रदेशः' इत्यादिवाक्यघटकस्यात् पदेनेत्यर्थः । य एवं प्रदेश उद्देश्यः स एव धर्मास्तिकायसम्बन्धित्वाद् धर्मास्तिकायात्मकत्वाद् वा धर्मास्तिकाय इत्येवं विधेयः, एवं य एवं प्रदेश उद्देश्यः स एवाधर्मास्तिकायसम्बन्धित्वादधर्मास्तिकायात्मकत्वाद् वा विधेय इत्येवं स्यात्पदमनुशास्तीत्य स्मन्मतपर्यवसानमेवेति शब्दनयवादी समाधत्ते-नेति । उद्देश्यविधेयविशेषपर्यवसानेन 'स्याधर्मास्तिकायस्य प्रदेशः' इत्यत्र य उद्देश्यो यच विधेयस्तस्मादन्य उद्देश्योऽन्यश्च विधेयः स्यादधर्मास्तिकायस्य प्रदेशः' इत्यादावित्येवमुद्देश्यविधेय. विशेषपर्यवसानेनेत्यर्थः । तस्य 'स्याद्धर्मास्तिकायस्थ प्रदेशः, स्यादधर्मास्तिकायस्य प्रदेशः' इत्येवं प्रदेशभजनीयत्वस्य । बश्यमाण एव धर्मास्तिकाये प्रदेशो धर्मास्तिकायो वा प्रदेशो धर्मास्तिकाय इत्येवमनन्तरमभिधीयमान एव । तदिति मूलस्य विवरणम् - तस्मात् कारणादिति- प्रदेशभजनीयत्वे व्यवस्थापगमप्रसङ्गलक्षणकारणादित्यर्थः । ततः कोऽत्र निर्णयः स्यादित्यपेक्षायामाह-धर्म इति, अस्य विवरणम्-धर्मास्तिकाये इति-धर्मास्तिकाये प्रदेशो धर्मास्तिकाय इति सप्तमीतत्पुरुषेण निर्णयः कर्तव्यः, वा अथवा - धर्मास्तिकायश्चासौ प्रदेशो धर्मास्तिकायप्रदेश इति कर्मधारयेण निर्णयः
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy