________________
२१८ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः । समभिव्याहृतबहुवचनान्तप्रदेशपदोपादान एव तपाबोधसम्भवात् , यदि च मृहशतेऽश्वा इतिपत्र तात्पर्यविशेषेणोक्तबोधसम्भव इतीष्यते तथापि प्रत्येकवृत्तिबहुत्वेन- बहुवचनेन साहाक्षेति सोऽपि पक्षोऽसन्, नयुक्तबोधार्थ · गृहशतेऽश्वाः' इतिवद् गृहसतेऽश्वः' इति कश्चित् प्रयुङ्क्ते, तद्वत् पञ्चानां प्रदेश इत्युपदर्शितदिशाऽपि न युक्तः प्रयोगः, इति निर्गलितार्थः । तृतीयस्तु पक्षो न युक्त:उक्तातिरिक्तभेदासिद्धेः । तत ऋजुसूत्रनयः प्रदेशभजनीयतां ब्रूते- स्याद्धर्मास्तिकायस्य प्रदेशः स्यादधर्मास्तिकायस्येत्यादि विकल्पयतीत्यर्थः ॥ ५८ ॥
भजनाया विकल्पत्वाद, व्यवस्थैवमपैति तत् । धर्मे धर्मः प्रदेशो वा, धर्म इत्यादिनिर्णयः ॥ ५९ ॥
पर्याप्तिसम्बन्धावच्छिन्नास्ताः पुनस्तत्तदश्वगतैकत्वावच्छेदेनाश्वेषु वर्तन्त इति तदवच्छेदकानि तत्तद्वहगततत्तदश्वगतान्थेकत्वानि, तद्वन्तः शतत्वसङ्ख्यावन्तोऽश्वा भवन्तीति तद्विषयको बोधो निरुकवाक्यादुपपद्यते प्रत्येकं गेहे प्रत्येकमश्वस्य वृत्तित्वमुपादायेति, एवं धर्मास्तिकायादीनां पञ्चानां प्रदेश इत्यत्र धर्मास्तिकायादिगतं यत् पञ्चत्वं पर्याप्तिसम्बन्धन तदधिकरणे धर्मास्तिकायादौ पर्याप्तिसम्बन्धावच्छिन्नाः प्रदेशगता वृत्तिना निरूपकतासम्बन्धेन वर्तन्त इति ता धर्मास्तिकायादिगतपच्चत्वव्यापिका भवन्ति, तदवच्छेदकीभूतपर्याप्तिसम्बन्धस्यावच्छेदकं च धर्मास्तिकायादिगतमेकत्वमिति भवन्ति ता धर्मास्तिकायादिपञ्चत्वव्यापिकाः, एकत्वावच्छिन्नपर्याप्तिसम्बन्धावच्छिनास्ताश्च तत्तत्प्रदेशगतैकत्वावच्छेदेन तत्तत् प्रदेशेषु वर्तन्त इति तादृशवृत्त्यवच्छेदकानि यान्येकत्वानि तद्वन्तः प्रदेशा इति तद्विषयको बोध इति । स च धर्मास्तिकायादीनां पञ्चानां प्रदेश इति वाक्यप्रभवतवाऽनन्तरमुपदर्शितो बोधश्च । न सम्भवति धर्मास्तिकायादीनां पञ्चानां प्रदेश इति वाक्यतो न सम्भवति । निषेधे हेतुमाह-पञ्चेति-निरुक्तवाक्ये यद् बहुवचनान्तं पञ्चपदं तत्समभिव्याहृतं यद् बहुवचनान्तं प्रदेशपदं 'प्रदेशाः' इत्येवंस्वरूपं तदुपादाने-एव धर्मास्तिकायादीनां पश्चानां प्रदेशा इत्येवंरूपेणोच्चारमे सत्येव, एवकारेपैकवचनान्तप्रदेशपदोपादानस्य व्यवच्छेदः । तथाघोघसम्भवात् प्रत्येकं धर्मास्तिकायादिपञ्चसु प्रत्येक प्रदेशानां वृत्तित्वमाश्रित्य दर्शितो यो बोधस्तस्योपपत्तेः। ननु 'गृहशतेऽश्वाः' इत्यत्र गृहपदं न बहुवचनान्तं तथापि प्रत्येकं गृहशत. वृत्तित्वं प्रत्येकमश्वेपूररीकृत्य गेहेषु शतमश्वः' इति वाक्यप्रभवोपपदर्शितबोधसमानाकारो बोधस्तात्पर्यवलाद् यथा भवति तथा तात्पर्यविशेषवलादत्रापि निरुक्तबोधः स्य दित्यत आह-यदि चेति । अब धर्मास्तिकायादीनां पञ्चावां प्रदेश इति वाक्ये । तथापि 'गृहशतेऽश्चाः' इत्यत्र 'गेहेषु शतमश्वाः' इति वाक्यप्रभवबोधसमानाकारबोधस्य तात्पर्यविसेषबलात् सम्भवेऽपि । 'प्रत्येकवृत्तिबहुत्वेन" इत्यस्य स्थाने 'प्रत्येकवृत्तिबहुत्वेन' इति पाठो युक्तः । प्रत्येकवृत्तिः प्रत्येक धर्मास्तिकायादिपञ्चसु प्रत्येकं या प्रदेशस्य वृत्तिः सा । 'बहुत्वेम' इत्यस्य मूलस्य विवरणम् - बहुवचनेनेति, प्रदेशपदोत्तरबहुवचनेनेत्यर्थः । साहक्षेति स्थाने साकाङ्केति पाठो युक्तः, धर्मास्तिकायानां पञ्चानामित्यस्य प्रदेशा इति बहुवचनान्तप्रदेशपदसमभिव्याहाररूपाकासायां सत्यामेव निरुकप्रत्येकवृत्तित्वान्वयबोधः, न हि निराकाङ्क्षावाक्या तात्पर्यविशेषसहकारेणाप्यन्वयबोधः सम्भवतीत्याशयः । इति एतस्मात् कारणात् । सोऽपि पक्षः ‘मृहशतेऽश्वाः' इति वत् तात्पर्यविशेषेण धर्मास्तिकायादीनां पञ्चानां प्रदेश इत्यपि प्रत्येकवृत्तित्वान्वयबोधं जनयतीति पक्षोऽपि । असन् अयुक्तः, सोऽप्यसदिति पद्यघटकस्थाने 'सोऽप्यसन्' इति पाठः सम्यक् । उक्त्रपक्षस्यायुक्तत्वमुपपादपति-नहीति- अस्य 'प्रयुङ्के' इत्यनेनान्वयः । उक्तबोधार्थ प्रत्येकमश्वानां प्रत्येकं गृहेऽन्वयबोधार्थम् । तद्वदिति- यथा 'गृहशतेऽश्वः' इति न प्रयोगस्तयेत्यर्थः । तृतीयस्तु पक्ष इति -पञ्चविधत्वं पञ्चप्रकारत्वमित्यत्र प्रकारो भेद इति तृतीयविकल्पस्त्वित्यर्थः । उकातिरिक्तति - सङ्ख्या-बुद्धिबिशेषविषयत्वाभ्यामतिरिक्तस्य भेदस्यासिद्धरित्यर्थः । ततः धर्मास्तिकायादीनां पञ्चविधः प्रदेश इति व्यवहारनयाभिमतस्यायुक्कत्वात् । 'प्रदेशभजनीयतां ब्रूते' इति मूलस्यार्थमुपदर्शयति-स्याद्धर्मास्तिकायस्येति । 'स्यादधर्मास्तिकायस्य' इत्यनन्तरमपि 'प्रदेशः' इत्यनुवर्तते, इत्यादि' इत्यादिपदात् स्थादाकाशास्तिकायस्य प्रदेशः, स्यात् पुद्गलास्तिकायस्य प्रदेशः, स्याजीवास्तिकायस्य प्रदेश इत्येतत्रितयस्य परिग्रहः ॥ ५८ ॥