________________
( ( ) काभिधे थे | एम. ए. इत्यादिविविधपदविभूषितकालिकताकाले जाधिष्ठातृमहोमहापाध्याय श्रीशतीश चंद्र विद्याभूषणैश्च स्याद्वादपतिश्रीमद्विद्यानंदास्तित्वसमयः ८०० तमस्त्रीष्टाब्दसान्निध्य एव विनिर्धारितः ।
अतः प्रमाणपरिपाठ्यानयाऽष्टमशताब्दस्य शेषार्द्धः प्रारंभश्च नवमशताब्दस्येति यथाविधः समयोऽस्माभिः पूर्व विज्ञापितः सएव श्रीविद्यानंदस्वाम्यस्तित्वसमयः प्रमाणपदमधिरोहति न तत्र कापि संशीतिः । समजनि खल्वयं समयों दाक्षिणे कार्णाटिके वेतिहासेऽतीव महत्वस्य धर्मक्रांतिश्चाभून्महती किल वि समयेऽस्मिन् ।
जैन वैदिक बौद्धधर्मधुरंधरविद्वान्सः समुपालेभिरेऽस्तित्वमेतस्मिन्नेवावसरे, आसीन्न्यायशास्त्रमेतर्ह्येवेत्युम्नतिपराकाष्ठामापन्नं व्यधत्त किलैतत्कालीनविद्वत्परिकरेण न्यायशास्त्रपथा स्वमतसत्यताविर्भावाय भूयान् प्रयास: समजनिषत च तदाखे वादविवादशास्त्रार्थाः अवसाने किमजनि धार्मिकविवादफलं, विजयं च क स्तेषु समुपादात्, विजयश्च सहि वैदुष्येण कारणांतरेण वाभूदित्यवशिष्टं वरीवार्तीतिहासज्ञानां परीक्षणाय । परंतु नात्र संशीतिर्यद्विवादास्तित्वकाले दिगबंर जैनसंप्रदायनिकेतनस्तंभायमानश्रीमदकलंक विद्यानंदादि दिग्विजयिविदुषां दर्शनसौभाग्यं नाभूद्वाहुल्येन सर्वेष्टां ।
ग्रंथरचना |
दार्शनिको नैयायिकश्च समजनि श्रीमद्विद्यानंदिप्रभुरिति पूर्वे प्रतिपादितमतएवैष महात्मा विषयद्वयएवास्मिन् ग्रंथान् व्यरचि एतन्महोदयवैदुष्यमार्तंडप्रखरमयूखायमानः, आप्तमीमांसालंकारदेवालंकृतीत्य परनामभाक् विश्रुंतग्रंथोऽष्टसहस्स्याभिधः । श्रीमदुमास्वामिविरचितत्तत्त्वार्थ सूत्रस्योपरि विद्यते गंधहस्तिमहाभाष्यं । तत्प्रारंभे पंचदशाधिकशतपद्यविनिर्मिताप्तमीमांसाख्यं देवागमस्तोत्रामिधं वा मंगलाचरणं । तदुपरि श्रीमदकलंकदेवरचिताष्टशत्यभिधो ग्रंथस्तद्भाष्यभूतएवायमष्टसहस्त्र्यभिधो महान् ग्रंथः । अपरश्चैतस्य महात्मनो जैनदर्शनग्रंथतत्त्वार्थसूत्रोपरि श्लोकवार्तिकाभिषं भाष्यं तृतीयश्च सामंतभद्रयुक्त्यनुशासनटीकाग्रंथः ।
परीक्षापि विश्रुतग्रंथोस्य महोदयस्य । सतीष्वपि भूयसीषु तद्ग्रंथटीकासु, एतन्महोदय करविलसिताप्याप्त परीक्षालंकृतीत्यपराभिधा टीकाप्तपरीक्षायाः । ग्रंथचतुष्टयादस्मात् पत्रपरीक्षाप्रमाणपरीक्षाप्रमाणमीमांसाप्रमाणनिर्णयविद्यानंद महोदय बुद्धेशभवनव्याख्यानप्रभृतयोनेके ग्रंथा महात्मैतद्वैदुष्यविलसिताः संन्ति भुवि इति समाप्यतेऽयं निबंधोविधायपत्रपरीक्षा मंगलाचरणं ।
जीयान्निरस्तनिश्शेषसर्वथैकांतशासनं । सदा श्रीवर्द्धमानस्य शासनं जिनशासनं ॥ ४ ॥ *
विदुषामनुचरो गजाधरलालोजैनः |
१ श्लोकवार्तिकं लक्ष्यीकृत्यं विलिखितं श्रीमद्वादिराजसूरिणा पार्श्वनाथचरिते ।
ऋजुसूत्रं स्फुरद्रत्नं विद्यानंदस्य विस्मयः । शृण्वतामप्यलंकारं दीप्तिरङ्गेषु रंगति ॥
२ मैसूरकुर्गेतिपत्तनद्वयशिलालेखाभिधे प्रथेऽपि मि. ल्युई राईसमहोदयैरेतद्ग्रंथनामोल्लिखितं ।
३ यशोधरचरितकाव्य प्रस्तावनाशयम लिषेणप्रशस्तिनिम्नलिखितपद्यं समुद्धृत्य श्रीमत्पत्रिकेसरिणां त्रिलक्षणकदर्शनाभिधाथः कल्पितः परंतु त्रिलक्षणकदर्थनाभिधानो नापरः कश्चिदपि ग्रंथः किंतु पार्श्वजिनेन्द्रफणोपरि श्रीमत्पात्र केस - र्यनुमानविषयक भ्रमनिराकरणाय यत् पद्यं व्यलेखि श्रीमत्या पद्मवतीदेव्या तस्यैवात्र तात्पर्य । महिमा स पात्र फेसरिगुरोः परं भवति यस्य भत्तयासीत् पद्मावती सहाया त्रिलक्षणकदर्शनं कर्तुं ॥ १ ॥
• सारांशभूतोयं निबंध ः किल श्रीयुतत त्यानेमिनाथपांगललिखित महाराष्ट्रीय लेखस्य तत्र मूललेखकानेक विचारासम्मतत्वात् परिवर्तितोयं बहुभास्माभिः संशुध्येतिहासिक पुस्तकान्तरात् स्वतश्च विचारवाहुल्यं समुद्बोधितं चात्रेति ।