________________
( ७
> समुपादाच्च श्रीमदकलंकचरणपंकेरुहपरागप्रभावत एव जगत्यखर्ववैदुष्यं ॥ प्रभाचंद्रेश्वाकृत स्वकरविलसितग्रंथे श्रीमद्विद्यानंदिसमुल्लेखस्ततोनिर्धायते श्रीभट्टाकलंकप्रभाचंद्रयोरवांतर एव समयः श्रीमद्विद्यानंद्यस्तित्वस्य । एवं ७५३ नमखीष्टाब्दात् ( नरपतिकृष्णराज राज्यप्रारंभतः ) ८३८ तमादिपुराणवि - निर्णीतसमयावांतरे, श्रीभट्टाकलंकविद्यानंदिप्रभृतिविदुषामवसीयते कालः ।
यदा विरचितः श्रीमत्प्रथमजिनसे नैर्हरिवंशपुराणो न तावदुपालेभिरे श्रीमदकलंकविद्यानंदिप्रभृतिसूरिणो भुवि विश्रुतिं । अथवा न व्यरचयिषते तावदष्टशत्यष्टसहस्यादिप्रसिद्धग्रंथान् । यतो हि हरिवंशपुराणप्रारंभे स्वपूर्वकालीनसिद्धसेनसमंतभद्रदेवनंद्याद्याचार्यान् स्तुवतः कुर्वतश्च स्तवनं तदात्वे यत्किंचिद्र्थ रचनानिर्माणकृताभ्यासस्य श्रीमद्वितीयजिनसेनस्य, नाकलंकविद्यानंदिप्रभृतयो विद्वान्सः स्तुतिपथमगुः श्रीमत्प्रथमजिनसेनस्येत्यतोप्यनुमीयते यद्यदीमौ श्रीमद्भट्टाकलंक विद्यानंदिनौ श्रीमत्प्रथम जिनसेनसमये ग्रंथकर्तारौ प्राभूतां तदा हरिवंशपुराणप्रारंभे नियतं स्तुतिभाजनतामुपालेभाते । हरिवंशपुराणनिर्माणसमयश्च ७८४ तमे ख्रीष्टाब्दे । ततोकलंकविद्यानंदिनोः विशेषविश्रुतिसमयो ग्रंथप्रणेतृत्वसमयश्च ७८४ तमस्त्रीष्टाब्दानं तरमेव निर्धारणीयं ।
भर्तृहरिकुमारिळेतिस्वकरविलसिते निबंधद्वये प्रोफेसर श्रीमत्पाठकैः । इंडियन मेडिकललांजिगुरुः श्रीनंदमाणिक्यो नंदिताशेषसज्जनः । नंदताद्दुरितैकांतरजो जैनमतार्णवः ॥ ३ ॥ श्रीपद्मनंदिसैद्धांतशिष्योऽनेकगुणालयः । प्रभाचंद्रश्चिरं जीयाद्रत्ननंदिपदे रतः ॥ ४ ॥ २ इति श्रीभोजदेवराष्ट्रे श्रीमद्धारानिवासिना परमपरमेष्ठिप्रणामार्जितामलपुण्यनिराकृतकर्ममलकलंकेन श्रीमत्प्रभाचंद्रपंडितेन निखिलप्रमाणप्रमेयस्त्ररूपोद्योत परीक्षामुखपदं विवृतमिति प्रमेयकमलमार्तंडप्रशस्तौ विलसितमित्यतो निर्धार्यते यदभूदयं प्रमेयकमलमार्तंडकर्ता श्रीमत्प्रभाचंद्रो धाराधीशश्रीमद्भोजराजास्तित्वसमये । कालश्चैतन्नरपतेः १०२२ तमस्त्रीष्टाब्दात् १०५६ तमखीष्टाब्दांतं निर्धारितः कालेऽस्मिन्नेव शशसायं नृपतिर्भुवि । अतएव न्यायकुमुदचंन्द्रेादयप्रणेतृतः पृथगयं प्रभाचंद्रः समजनीत्यनुमीयते ॥ यतः—
चंद्रांशुशुभ्रयशसं प्रभाचंद्रकविं स्तुवे । कृत्वा चंद्रोदयं येन शश्वदाल्हादितं जगत् ॥
श्रीमज्जिनसेनाचार्यैरमुना पद्येन चंद्रोदयप्रणेतुः, आदिपुराणे स्तुतिरकृत निर्माणसमयश्चादिपुराणस्य ८३८ तमखीष्टाब्दसान्निध्ये परंतु नांचत्यनुमानमिदं प्रमाणपदं प्रमेयकमलमार्तंडन्यायकुमुदचंद्रोदययोरेकस्यै कर्तुर्निर्धारणात् मार्तंडचंद्रोदययोरेकएव कर्तेति चंद्रोदयप्रारंभलिखितपद्येनानेन सर्वथा स्पष्टीभवति । माणिक्यनंदिपदमप्रतिमप्रबोधं व्याख्याय बोधनिधिरेष पुनः प्रबंधः ।
प्रारभ्यते सकलसिद्धिविधौ समर्थे मूले प्रकाशितजगत्रयवस्तुसार्थे ॥
इत्यतो विज्ञायते यदष्टमखीष्टाब्दो वृद्धभोजेत्यपराभिधां दधानोऽपरभोज एवाजनिष्ट धारापुर्वी । द्वितीयभोजकालीनोभूत्कश्चित्प्रभाचंद्रः प्राज्ञवर इत्यत्र प्रमेयकमलमार्तंड भूमि कोल्लेखनसमये प्रादर्शि प्रमाणमिदं विद्वद्वरश्रीमत्पंडितवंशीधर शास्त्रिभिः यत् प्रमेयकमलमार्तंडे श्रीमन्नेमिचंद्र सैद्धांतिकचक्रवर्तिविरचिताः समुद्धृताः कियत्यो गाथाः । नेमिचंद्र सिद्धांतचक्रवर्ती च १००० तमे श्रीमन्नरपतिचामुंडरायास्तित्वसमये तत्समयसांनिध्ये वा समुदपादि । कन्नडचामुंडरायपुराणे श्री मच्चामुंडरायनरपतिना ( ८९९ तमे ख्रीष्टा - ब्दसमये, उत्तरपुराणप्रणेता ) श्रीमद्गुणभद्रस्वामी प्रास्तुत । उत्पतिश्च श्रीमच्चामुंडरायभूपतेः ९७८ तमे ख्रीष्टाब्दे समजनिष्ठेत्यतः, १००० तमे ख्रीष्टाब्दे श्रीमच्चामुंडरायास्तित्वमभूदित्यत्र न कापि संशीतिः । परंतु प्रमेयकमलमार्तंडसमुद्धृतगाथा न श्रीमन्नेमिचंद्रस्वामिस्वकरविलसिताः किंतु परंपरागताएव प्रमेयकमलमार्तडबन्नेमिचंद्रैरपि स्वकरविलसितग्रंथसंदोहे ताः समुद्धृताः, अतः प्रमेयकमलमार्तंडचंद्रोदयरचयिता प्रभाचंद्र एक एव भुवि समुदपादि व्यरचि च मार्तडानंरं चंद्रोदयं स इति दृढीयान् प्रत्ययः ।