SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ तुल्ये पदार्थे स एवायमित्येकस्मिश्च तेन तुल्यमित्यादिज्ञानं प्रत्यभिज्ञानाभासं युगलजातज्ञानवदिति । असंवन्धे तद्ज्ञानं तर्कामासम् । यावांस्तत्पुत्रः स श्याम इति । असत्यामपि व्याप्तौ तदाभासस्ताभासः, व्याप्तिरविनाभावो, यथा-स श्यामो मैत्रतनयत्वादित्यत्र यावान्मैत्रीतनयः स श्याम इति । अनुमानाभासमिदं-पक्षाभासादिसमुत्थं ज्ञानमनुमानाभासम् । अनिष्टादिः पक्षाभासः । अनिष्टो मीमांसकस्यानित्यः शब्दः । सिद्धः श्रावणः शब्दः । बाधिता प्रत्यक्षानुमानागमलोकस्वचनैरनुष्णोऽग्निरित्यादिवत् । असिद्धविरुद्धानकान्तिका हेत्वाभासाः ॥ ४६ ॥ प्रमाणेनासिद्धान्ययानुपपत्तिरसिद्धः, परिणामी शब्दश्चाक्षुषत्वात् ॥ ४७॥ तत्र यस्य प्रमाणेनासिद्धाऽन्यथानुपपचिः सोऽसिद्धः । स विविध उभयासिद्धोऽन्यतरासिद्धश्व, तत्र उभयस्य वादिप्रतिवादिसमुदायस्यासिद उभयासिद्धो, यथा-परिणामी शब्दः चानुषत्वादिति । अन्यतरस्य वादिनः प्रतिवादिनो वाऽसिद्धोऽन्यतरासिद्धो, यथा-अचेतनास्तरवो विज्ञानेन्द्रियायुनिरोधलक्षणमरणरहितत्वादिति। विपरीतान्यथानुपपत्तिविरुद्धः ॥ ४८ ॥
SR No.022468
Book TitleSyadwad Bhasha
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Grnathmala
Publication Year1982
Total Pages58
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy