SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ १८ यत्प्रमाणेन साध्यते तदस्य फलं तद् द्विविधमान पारम्पर्येण च । तत्रानन्तर्येण स ' प्रमाणानामज्ञान निवृत्तिः । पारम्पर्येण हानोपादानोपेक्षा बुद्धयश्च फलम् । तत्प्रमाणाद् भिन्नमभिन्नं च, प्रमाणफलत्वान्यथानुपपत्तेः ॥ ४३ ॥ तस्यैकप्रमातृतादात्म्येन प्रमाणादभेदव्यवस्थितेः । प्रमाणतया परिणतस्यैवात्मनः फलतया परिणतिप्रतीतेः, यः प्रमिमीते स एव निवृत्ताज्ञानो जहात्याददात्युपेचते चेति प्रतीतेः । साध्यसाधनभावेन प्रमाणफलयोः प्रतीयमानत्वात्, कर्त्ता हि साधकः स्वतन्त्रत्वात् क्रिया तु साध्या कतु निर्वर्ण्यत्वादिति । प्रमाणस्वरूपादेरन्यत्तदाभासम् ॥ ४४ ॥ अज्ञानात्मका नात्मप्रकाश कस्वमात्रावभासकनिर्वि कल्पकसमारोपाः प्रमाणस्य स्वरूपाभासाः || ४५ ॥ यथा संनिकर्षाद्यस्वसंविदितपरानव मासकज्ञानदर्शन विपर्ययसंशयान व्यवसायाः प्रमाणाभासाः । यथा - द्विचन्द्रादिज्ञानं, विभङ्गश्च प्रत्यक्षाभासम् । अतस्मिंस्तदिति ज्ञानं स्मरणाभासम् । यज्ञदत्ते स देवदत्तो यथा । असदृशे तदेवेदं तस्मिंश्च तत्सदृशमित्यादिज्ञानं प्रत्यभिज्ञानाभासं यमलज्ञानवत् ।
SR No.022468
Book TitleSyadwad Bhasha
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Grnathmala
Publication Year1982
Total Pages58
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy