SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १६२ घड्दर्शनसमुच्चयः सटीका लोकव्यापौतिवचनेनासंख्यप्रदेशवचनेन च खोकाकाशप्रदेशप्रमाणप्रदेशो निर्दिश्यते । तथा स्वत एव गतेः परिणतानां जीवपुद्गलानामुपकारकरो अपेक्षाकारणमित्यर्थः । कारणं हि त्रिविधमुच्यते, यथा घटस्य मृत्परिणमिकारणं १, दण्डादयो 5 ग्राहकाच निमित्तकारणं २, कुम्भकारो निर्वर्तकं कारणम् ३। तदुक्रम् । निवर्तकं निमित्तं परिणमं च विधेष्यते हेतुः । कुम्भस्य कुम्भकारो धर्ता मृति समसंख्यम् ॥ निमित्तकारणं च देधा निमित्तकारणमपेक्षाकारणं च । 10 यत्र दण्डादिषु प्रायोगिकी वैसमिकौ च क्रिया भवति तानि दण्डादौनि निमित्तकारणम् । यत्र तु धर्मादिद्रव्येषु वैसमिक्येव क्रिया तानि निमित्तकारणान्यपि विशेषकारणताज्ञापनार्थमपेचाकारणान्युच्यन्ते। धर्मादिद्रव्यगतक्रियापरिणाममपेक्षमाणं जीवादिकं गत्यादिक्रियापरिणतिं पुष्णातौति कृत्वा ततो ऽत्र 13 धर्मो ऽपेक्षाकारणम् १। एवमधर्मा ऽपि लोकव्यापितादिमकल विशेषणविशिष्टो धर्मवनिर्विशेषं मन्तव्यः, नवरं स्थित्युपग्रहकारौ खत एव स्थितिपरिणतानां जीवपुगलानां स्थितिविषये ऽपेक्षाकारणं वक्रव्यः २। एवमाकाशमपि लोकालोकव्यापक मनन्तप्रदेशं नित्यमवस्थितमरूपि द्रव्यमस्तिकायो ऽवगाहोप20 कारकं च वक्रव्यं, नवरं लोकालोकव्यापकमिति । ये केचनाचार्याः कालं द्रव्यं नाभ्युपयन्ति किंतु धर्मादिद्रव्याणां पर्यायमेव, तम्मते धर्माधर्माकाशपुगलजीवाख्यपञ्चास्तिकायात्मको लोकः ।
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy