SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ वृत्ति स्फुटार्था परिचीय भव्याः, सर्वज्ञ देने ढभक्तिभावाः । भवन्तु पश्यन्तु निजस्वरूपं, मुक्तिं लभन्तां च विधूतपङ्काः ॥ प्रहचन्द्रयिमत्रे, वर्षे विक्रमतोऽथ दादराभिख्ये । मुम्बापुर्युपनगरे, शान्तिजिनोपाश्रये रम्ये ।। . . (१८) चातुर्मास्ये सैषा, वृत्तिः सम्पूर्णतां समापादि । कार्तिकमासे श्रीमद्-विजयामृतसरिणा कृतिना ॥ चन्द्रार्कावुदयेते, यावत् खे तावदेव वृत्तिरियम् । सद्भिः सुपठयमाना, नन्दतु विश्वेऽत्र निरपाया । (२०) छाास्थ्येन कृतौ याः, क्षतय: स्युस्ताश्च सजनैर्मग्याः । प्रकतिरियं तेषां वा, न च लोकेऽपेक्षतेऽनुनयम् ॥ (२१) आरच्येमां वृत्ति, यदत्र कुशलादिकं समालब्धम् । तेन हि भव्यो लोकः, प्राप्नोत्वचिरेण भवविरहम् ।। (२२) वृत्तेषिधातुर्विनयाश्चितस्य, शिष्यस्य देवाभिधया श्रुतस्य । पन्न्यासधाम्नोऽन्तिपदाऽत्र भाव-द्रङ्गेऽस्तिभावे वडवा विभागे । (२३) आचार्यमेरुप्रभसूरिणः स-विधानमासाद्य कृपां च भूयः । श्रीहेमचन्द्रेण कृता प्रशस्तिः, भूयात् सदा सम्मदा बुधानाम् ।। " श्रेयो भूयाच्छ्रीश्रमणसहस्य ।।
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy