SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ .. . (५) इत्येवं जिनधर्मकल्पलतिकासेकाम्बुवाहोपमा, गच्छे सूरिवराः शुभेऽष्ट प्रथमे निर्ग्रन्थसंज्ञेऽभवन् । श्रीमत्कोटिगणे ततः समभवन् श्रीसुस्थिताद्या बुधा, ये निःश्रेयससाधकं जिनमतं ह्युच्चैः समादिक्षत ॥ श्रीचन्द्राभिधसूरिराडुदभवच्छ्रीचन्द्रगच्छेऽमले, यस्याश्चर्यकरं निशम्य चरितं चित्रीयते नैव कः ।, जाता: श्रीवनवासिगच्छगगनप्रद्योतनाः सूरयः, . श्रीसामन्तमुखाः प्रशस्तयशस: प्राज्ञोत्तमा द्वादश ।। अष्टौ श्रीसर्वदेव-प्रभृतिमुकृतिनः सूरिवर्या वटाऽऽख्ये, गच्छे स्वच्छे विशालोऽजनिषत शमिनां शेखसः सच्चरित्राः । भव्याम्भोजप्रबोधे दिनकर इव यः सत्तयागच्छधुर्यो, जाग्रत्पुण्यप्रभावोऽज नि जगति जगच्चन्द्रसूरीश्वरः सः सोमप्रभः सूरिवरो गुणाकरः, प्रभाविसूरीश्वरसोमसुन्दरः । विद्वद्वरेण्यो मुनिसुन्दरः शमी, श्रीहीरसूरिनॅपतिप्रबोधकः ॥ . श्रीसेन-देव-प्रमुखाः कुवासना-विषापहज्जाङ्गुलिमन्त्रसन्निभाः । सूरीश्वरा आईतशासने परे, चकासति स्म प्रशमाद्यलकृताः ॥ (१०) उपस्थितः पट्टपरम्परातः, श्री वृद्धिचन्द्रः श्रमणावतंसः ।। यः सौम्यमूर्तिः सरलात्मवृत्ति महीयसां मान्यतमो महात्मा ।।
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy