________________
[१२३] मित्वतः-परिणामात् । प्रकृतिजन्यबोधे प्रकारीभूतस्यैव भावपदार्थत्वात्.। तत्क्षयाय-कर्मक्षयहेतवे । कदाचन-कदाचित् । प्रवृत्तिः -धर्मादिनिमित्तकयत्नविशेषः । युज्यते-उपपद्यते ॥ ५९ ॥
तपःसंयमयोगेषु, कर्मबन्धदवाग्निषु । प्रवृत्तौ तत्क्षयाच्छुद्धिर्मोक्षश्चानुपचारतः ।। ६० ॥
( अन्वयः ) कर्मबन्धदवाग्निषु, तपःसंयमयोगेषु, प्रवृत्ती, तत्क्षयात् , शुद्धिः, च, अनुपचारतः, मोक्षः ।
वृत्तिः-कर्मबन्धदवाग्निषु-कर्मजनितो बन्धः कर्मबन्धः स एव दवो वनन्तत्र-अग्नयोऽनलाः कर्मबन्धदवाग्नयस्तेषु तथा । तपःसंयमयोगेषु-तपःसंयमयोर्योगाः सम्बन्धास्तपःसंयमयोगास्तेषु तथा । प्रवृत्ती-प्रवृत्तिनिमित्तम् । तत्क्षयात्-कर्मबन्धक्षयात् । शुद्धिःसात्त्विकभावः । विशुद्धिरितियावत् । च-पुनः । अनुपचारत:वस्तुतः । मोक्ष:-महानन्दः, मुक्तिरिति यावत् । सम्पद्यते इति शेषः ॥ ६० ॥ स ताक् किं न निर्वेदात् , सर्वेषामेव देहिनाम । युगपज्जायते किं च, कदाचित् कस्यचिन्ननु ? ॥ ६१ ॥
( अन्वयः ) तादृक् , सः, निर्वेदात्, सर्वेषाम् , एव, देहिनाम् , युगपत् ननु, किम्, न, जायते, च, कस्यचित्, कदाचित् , किम् , ?
वृत्तिः-तादृक्-तादृशः । स:-मोक्षः । निर्वेदात्-वैराग्यात् । सर्वेषाम्-निखिलानाम् । एव-अवधारणम्। देहिनाम्-प्राणिनाम् ।