________________
[११२] शूरशब्दप्रयोगदर्शनात् न व्यतिरेकव्यभिचार इत्याशङ्कते-तत्रेति समाधत्ते-नेति
७४ (मूलम् )-तत्राप्यन्तराले शूरविवक्षाऽस्तीतिचेत् ? न, प्रमाणाभावात् , तच्छब्दप्रयोगान्यथानुपपत्तिः प्रमाणमिति चेत्, न, सन्देहानिवृत्तेः, अविवक्षापूर्वकत्वेऽपि विरोधासिद्धेः,
प्रमाणा भावात्-आन्तरालिकशूरविवक्षायां प्रमाणाभावादित्यर्थः। ननु शूरविवक्षां विना तच्छब्दप्रयोगान्यथानुपपत्त्याऽर्थानुपपत्तिरेवतत्रप्रमाणमिति शङ्कते-तच्छब्देति-समाधत्ते-नेत्यादिना-अयं भाव:-यदि शूरविवक्षां पुरस्कृत्य शूरशब्दप्रयोगः स्यात्तदा सन्देहनिवृत्त्या भवितव्यम्. अर्थात् अयं शूरोऽशूरो वेति सन्देहेन न भवितव्यम् , तद्विवक्षया तच्छब्दप्रयोगश्चसन्देह निवर्तको भवति. प्रकृते च कातरविवक्षाकालिकशूरशब्दप्रयोगस्थले " अयं शूर एव" इत्याकारकनिश्चयप्रयोज्या सन्देह निवृत्तिर्न भवतीत्यतः शूरशब्दप्रयोगस्याविवक्षापूर्वकत्वकल्पनेऽपि कश्चिद्विरोधो न दृश्यतेऽत आन्तरालिकशूरविवक्षायामापत्तिरप्रमाणमिति सिद्धम् ।
___ ननु तत्पदार्थविवक्षाऽभावेऽपि तच्छब्दप्रयोगश्चेत् तच्छब्दप्रयोगस्य निर्हेतुकवर्मायाति ततश्च ययन्निर्हेतुकं भवति तत्तत्सावैदिकं भवतीति सर्वदा तच्छब्दप्रयोगापत्तेरशूरवक्तव्येऽपि “शूरः शूरः" इति प्रयोगाद्विरोधः स्यादित्याशङ्कते-तदभाव इति
समाधत्ते नेत्यादि