SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ [१०९] कुत्रचित् । प्रक्रान्तवन्तुनि प्रकरणविषयीभूते पदार्थ, सप्तम्यर्थो विषयत्वम् तथा च प्रकरणविषयीभूतपदार्थविषयकरागाद्यभावेऽपि सताम्-सत्पुरुषाणाम् साक्षादेव-सद्य एव. वक्तृत्वोपपलब्धेः वक्तृत्वदर्शनादिति. रागाद्यभावेऽपि वक्तृत्वोपलब्धिदर्शनात् रागादेवक्तृत्वोपादानकारणत्वं निरस्तं वेदितव्यमिति भावः । अन्यथारागादीनां वक्तृत्वोपादानकारणत्वस्वीकारे च रागाद्यभावे वक्तृत्वाभावप्रसङ्ग इति । जायतां नाम वक्तृत्वाभावः किं नश्छिन्नमित्याह-तथेति. वक्तृत्वाभावप्रसङ्गे सति व्याख्यानादिव्यवहारविलोपापत्तिरिति । एतेन " नवक्तृत्वमदेहस्य" इत्यादिनोपपादितमसर्वज्ञत्वमपहसितं वेदितव्यम् । __पूर्व पूर्वपक्षिणा " विवक्षया च वक्तृत्वं, साचेच्छाभावतो हि यत् । रागस्ततश्च वक्तृत्वात्, न सर्वज्ञ इतिस्थितम्"। इत्यनेन श्लोकेन वक्तृत्वस्य विवक्षाधीनत्वम् विवक्षायाश्च पुनरिच्छाभावाधीनत्वम् , इच्छाभावस्य रागाधीनत्वमिति वक्तृत्वस्य रागनिबन्धनत्वात् वक्तृत्वेन हेतुना सर्वज्ञत्वाभावः साधितस्तत्खण्डयितुमुपक्रमते-यच्चोक्तमित्यादि ७० (मूलम् )-यच्चोक्तं-" विवक्षया च वक्तृत्वम" (श्लोक २१) इत्यादि एतदप्ययुक्तम् , एतत्-कथितप्रकारेण वक्तृत्वहेतुकसर्वज्ञत्वाभावसाधनम् अपि -खलु. अयुक्तम्-न युक्तमित्यर्थः, तत्र हेतुमाह-विवक्षेत्यादि ७१ ( मलम् )-विवक्षामन्तरेणापि क्वचिद्वक्तृत्वसिद्धेः सुप्तमत्तादिषु तथादर्शनात्,
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy