SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ प्रमेयरत्नमाला। तत्र प्रत्यक्षबाधितो यथा अनुष्णोऽग्निद्रव्यत्वाजलवत् । स्पार्शनप्रत्यक्षेण ह्युष्णस्पर्शात्मकोऽग्निरनुभूयते । अनुमानबाधितमाह___ अपरिणामी शब्दः कृतकत्वात् घटवत् ॥ १७ ॥ अत्र पक्षोऽपरिणामी शब्दः कृतकत्वादित्यनेन बान्यते । आगमत्राधितमाह प्रेत्यासुखपदो धर्मः पुरुषाभितत्वादधर्मवत् ॥ १८ ॥ आगमे हि पुरुषाश्रितत्वाविशेषेऽपि परलोके धर्मस्य सुखहेतुत्वमुक्तम् । लोकबाधितमाह शुचि नरशिरःकपालं प्राण्यंगत्वाच्छंखशुक्तिवत् ॥ १९ ॥ लोके हि प्राण्यंगत्वेऽपि कस्यचिच्छुचित्त्वमशुचित्वं च । तत्र नरकपालादीनामशुचित्वमेवेति लोकबाधितत्वम् । स्ववचनबाधितमाहमाता मे वन्ध्या पुरुषसंयोगेऽप्यगर्भवात्मसिद्धवन्ध्यावत् ॥२०॥ ___ इदानी हेत्वाभासान् क्रमापन्नानाहहेत्वाभासा असिद्धविरुद्धानकान्तिकाकिञ्चित्कराः ॥ २१ ॥ एषां यथाक्रमं लक्षणं सोदाहरणमाह असत्सत्तानिश्चयोऽसिद्धः ॥ २२ ॥ सत्ता च निश्चयश्च सत्तानिश्चयौ, असन्तौ सत्तानिश्चयो यस्य स भवत्यसत्लत्तानिश्चयः । तत्र प्रथमभेदमाह अविद्यमानसत्ताकः परिणामी शब्दश्चाक्षुषत्त्वात् ॥ २३ ॥ कथमस्यासिद्धत्वमित्याह स्वरूपेणासत्त्वात् ॥ २४ ॥ द्वितीयासिद्धभेदमुपदर्शयतिअविद्यमाननिश्चयो हुन्धबुद्धिमत्यग्निरत्र धूमादिति ॥ २५॥
SR No.022451
Book TitlePramey Ratnamala
Original Sutra AuthorN/A
AuthorAnantvirya Shrimad
PublisherJain Sahitya Prasarak Karyalay
Publication Year1927
Total Pages92
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy