SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ___७९ षष्ठसमुदेशः। अतस्मिंस्तदिति ज्ञानं स्मरणाभासं जिनदत्ते सदेवदत्तोपयोत 'अतस्मिन्नननुभूत इत्यर्थः शेषं सुगमम् । प्रत्यभिज्ञानाभासमाह सदृशे तदेवेदं तस्मिन्नेव तेन सदृशं यमलकवदित्यादि प्रत्यभिज्ञानाभासम् ॥९॥ द्विविधं प्रत्यभिज्ञानाभासमुपदर्शितं, एकत्वनिबंधनं सादृश्यनिबंधनं चेति । तत्रैकत्त्वे सादृश्यावभासः सादृश्ये चैकत्वाभासस्तदाभासमिति । तर्कामासमाह-- असम्बद्ध तज्ज्ञानं तर्कामासम् ॥ १० ॥ यावाँस्तत्पुत्रः स श्याम इति यथा । तज्ज्ञानमिति व्याप्तिलक्षणसम्बन्धज्ञानमित्यर्थः इदानीमनुमानाभासमाह इदमनुमानाभासम् ॥ ११ ॥ इदं वक्ष्यमाणामिति भावः । तत्र तदवयवाभासोपदर्शनेन समुद यरूमानुमानामासमुपदर्शयितुकामः प्रथमावयवाभासमाह-- तत्रानिष्टादिः पक्षाभासः ॥ १२ ॥ इष्टमबाधितमित्यादि तल्लक्षणमुक्तमिदानीं तद्विपरीतं तदाभासमिति कथ यति ' अनिष्टो मीमांसकस्यानित्यः शब्दः ॥ १३ ॥ असिद्धाद्विपरीतं तदाभासमाह-- सिद्धः श्रावणः शब्द इति ॥ १४ ॥ अबाधितमविपरीतं तदाभासमावेदयन् स च प्रत्यक्षादिबाधित एवेति दर्शयन्नाह बाधितः प्रत्यक्षानुमानागमलोकस्ववचनैः ॥ १५ ॥ एतेषां क्रमेणोदाहरणमाह---
SR No.022451
Book TitlePramey Ratnamala
Original Sutra AuthorN/A
AuthorAnantvirya Shrimad
PublisherJain Sahitya Prasarak Karyalay
Publication Year1927
Total Pages92
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy