SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ प्रमाणमञ्जरी [द्रव्य [ब. टी.] विशेषलक्षणानि कर्तुं पदार्थसामान्यलक्षणमाह-अभिधेय इति । अभिधा शब्दः, तच्छक्तिर्वा, तद्विषयत्वं पदार्थलक्षणम् । तेन नोभिधापदवैयर्थ्यम् । यद्वा नेदं लक्षणम् , व्यावृत्त्यभावात् , किन्तु पदार्थपदप्रवृत्तिनिमित्तम् । प्रवृत्तिनिमित्ते च वैयर्थ्य नं दोष इति भावः । उद्देशस्तु पदार्थपदेन धोतितो हृदिस्थो बोध्य इति । विशेषविभागमाह-स इति । पूर्व इति । भावरूपः । स इति । विधिविषय इत्यर्थः । तथा च भावत्वं भावत्वप्रकारकप्रमाविषयत्वं वा भावलक्षणं सूचितं भवति । [अ.टी.] अत्र काणादोक्ताः पदार्थाः सामान्यविशेषरूपाभ्यां संक्षेपतो बालबुद्धिव्युत्पादनाय लक्षणप्रमाणारूढा निरूप्यन्ते । ततः पदार्थसामान्यलक्षणं तावदाह-अभिधेय इति । अभिधाशब्दः तद्विषयोऽभिधेय इँति लक्षणम् । पदार्थ इति लक्ष्यनिर्देशः । पर्यायत्वेऽपि लक्ष्यलक्षणभावो दृष्टः । प्रमाणमनुभूतिः, खं छिद्रमित्यादौ, ततोऽभिधेयपदार्थयोः पर्यायत्वात् न लक्ष्यलक्षणभाव इति नाशङ्कनीयम् । नाम्ना निर्देश उद्देशः। स च पदार्थानामनिर्देशनात्र लक्षणे सङ्गृहीतः । लक्षणञ्चासाधारणरूपनिर्देशः । ननु वन्ध्यापुत्र इत्यादिशब्दाभिधेयत्वेऽपि पदार्थत्वं नास्तीत्यतिव्याप्तिर्वन्ध्यापुत्रादौ । पदार्थो हि भावाभावात्मकः प्रमाणसिद्ध आश्रीयते । न च वन्ध्यापुत्रादौ प्रमाणमस्ति । मैवम् ; प्रमाणशास्त्रे प्रमेयत्वसहचरितस्यैवाभिधेयत्वस्य विवक्षितत्वात् । एतज्ज्ञांपनायैव प्रमाणमञ्जरीति संज्ञोक्ता । तस्य च वन्ध्यापुत्रादावभावान्नातिव्याप्तिरित्यादिन्यायप्रमाणाभ्यामवस्थापनं परीक्षा । प्रकारभेदकथनं विभाग इति चतुर्धा निरूपणम् । ततो विभागमाह-स भावाभावमेदादिति । सशब्दः पदार्थपरामर्शी, प्रमाणेनानुभवनादभावोऽपि भावशब्देनाभिधातुं शक्यते । ततः कथमयं विभाग इत्याशङ्कानिरासार्थ भावलक्षणमाह-पूर्व इति । अनपूर्वकश्शब्दो विधिः । यथा द्रव्यं गुण इत्यादि । नास्तीति शब्दमात्रम् , येनाभावोऽस्तीत्यभावस्यापि विधिविषयत्वादतिव्याप्तिराशयेत । अभावस्य प्रतियोगिभावनिरूपणापेक्षत्वात्तमुपेक्ष्य भौवस्य विभागमाह-स षोढेति । 'द्रव्यगुणकर्मसामान्यविशेषसमवायाः षट् पदार्थाः' इत्याचार्यवचनेऽपि पदार्थशब्दस्तदेकदेशभूतभावविषयः । तथा च लीलावतीकारः __ भावत्वाधिष्ठितास्सर्वाः प्रत्येक व्यक्तयो मताः । द्रव्यादिषटू विच्छेदमेलकेन विवर्जिताः ॥ इति । ततो न सूत्रादिविरुद्धोऽयं भावविभागः । विषयत्वमेवात्र लक्षणम् । अत्रैवकारः प्रमापदव्यवच्छेदक इत्यधिक च. २ नाभिधेयवैयर्थ्यमिति छ. ३ प्रवृत्तिनिमित्तमिति नास्ति छ. ४ स इतीति नास्ति छ. ५ भासमानवैशिष्ट्यप्रतियोगित्वं प्रकारत्वम् विशेषणविशेष्याभ्यां युक्तं वैशिष्ट्यमिति 'च' पुस्तकटिप्पणी. ६ तत्रेति झ. ७ एतदिति ज. ट. ८ आस्थीयत इति ज. द. ९ द्योतनायैवेति ज. ट. १० व्यवस्थेति ज. ट. ११ द्रव्यगुण इति झ. १२ अतिव्याप्तिमाशङ्केत इति ज. १३ भावविभागमिति ट. १४ कार इति नास्ति ज. ट.
SR No.022449
Book TitlePraman Manjari
Original Sutra AuthorN/A
AuthorPattambhiram Shastri
PublisherRajasthan Puratattava Mandir
Publication Year1953
Total Pages120
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy