SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ निरूपणम्] ___टीकात्रयोपेता अभिवन्द्य विधोरर्द्धधारिणश्च कणव्रतम् । ' प्रमाणमञ्जरी सेर्वदेवेन क्रियते मया ॥२॥ [ब. टी. ] बहुतरविघ्ननिवारणाय विद्याधिष्ठातारमीश्वरम् एतच्छास्त्रप्रणेतृकणादमुनिश्च नमन् अभिधेयं निर्दिशति-अभिवन्द्येति । प्रमाणं प्रकृतं शास्त्रम् । तत् पादपस्थानीयम् । तस्येयं मञ्जरी वल्लरी अभिनवपल्लवस्थानीयेति भावः। [अ. टी.] इदानीं विद्याधिपतिमीश्वरं प्रवर्तनीयविद्यास्वातच्याय कणादमुनिश्च तदीयशास्त्रसारोद्धाराच्चतुरप्रक्रियायां वाक्चेतसोरस्खलनार्थं प्रणमन् यदुद्दिश्य मङ्गलाचरणं कृतं तन्निर्दिशति-अभिवन्द्येति । विधुश्चन्द्रः। प्रमाणं तर्कशास्त्रम् । तच बुद्धिस्थं काणादम् । तस्य मजरी वल्लरी कल्पपादपस्थानीयशास्त्रस्याभिनवपल्लवस्थानीयेयं प्रक्रियेत्यर्थः । ननु किमत्र प्रतिपाद्यम् ? भावाभावपदार्थों चेत्-गौतमतत्रेण गतार्थता, तत्रापि प्रमाणादिभावाभावपदार्थवर्णनं दृश्यते यतः । सत्यम् ; तथापि षडेव भावाः, द्वे एव प्रमाणे इत्यादि महत्तरावान्तरभेदेनापुनरर्थता। अन्यथैकस्मिंस्तत्रे स्वमतशुद्ध्यर्थं सर्वतत्रार्थोपन्यासादन्यानारम्भप्रसङ्गात्, तदनारम्भे च सर्व स्वतत्रमेवेति पूर्वपक्षसिद्धान्तभेदेना? ग्राह्यमद्धमग्राह्यमित्यर्द्धजरतीयन्यायेनाप्रामाण्यप्रसङ्गादेकमपि तत्रं नौरभ्येत । अतो वैशेषिकतत्रारम्भसिद्धौ. तत्प्रकरणारम्भोऽपि निश्चलः । [वा. टी.] ईश्वराज्ज्ञानमिच्छेत्' इत्यादिस्मृतेरीश्वरस्यापि विद्याप्राप्तावतिशयगत्वावगमात्तं नमन् कणादशास्त्रप्रकरणं चिकीर्षुराचार्यस्तच्छास्त्रप्रणेतारं कणादनामानञ्च मुनि नमन् चिकीर्षितं प्रतिजानाति-अभिवन्द्येति । विधुश्चन्द्रः । अर्द्धशब्दश्चात्र कलामात्रवाची.........त्युक्त्वा क्रियमाणस्य निर्दोषत्वं सूचितम् । प्रमाणमञ्जरीति ग्रन्थनाम । निश्चीयन्तेऽर्था अनेनेति प्रमाणमिति प्रमाणशब्दप्रतिपाद्यस्य बुद्धिस्थकणादशास्त्रस्य कल्पपादपत्वेनाभिमतस्याभिनवप्रवालशाखास्थानीयेयं कृतिरिति ग्रन्थकृदाशयः । अनेन श्रोतृप्रवृत्त्यङ्गभूतमेतद्न्थावान्तरविषयादिकमपि सूचितम्-खपदार्थ तद्भानतत्कामादि। (पदार्थलक्षणं तद्विभागश्च ) अभिधेयः पदार्थः। स भावाभावभेदेन द्विधौ पूर्वो विधिविषयः । स षोढा, द्रव्यादिभेदेन । १ अर्ध इति मु. २शर्वदेव. इति. मु. पा. ३ निवर्तनायेति च. ४ वल्लरीति नास्ति छ, ५ यदर्थमिति ज. ट. ६ कृतमिति नास्ति ज. ट. ७. पदार्थों इति नास्ति झ. ८ यत इति नास्ति झ. ९ मेदादगतार्थतेति ज. ट. १० त्याज्यमिति झ. ११ नारभेत इति झ. १२ निश्चित इति ट. १३ रेभाव इति ख. १४ भेदादिति क. ख. १५ द्वेधा इति ख. १६ पूर्व इति ख.
SR No.022449
Book TitlePraman Manjari
Original Sutra AuthorN/A
AuthorPattambhiram Shastri
PublisherRajasthan Puratattava Mandir
Publication Year1953
Total Pages120
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy