________________
[षड्दर्शनस० ___ व्याख्या-ततो गुणत्रयाभिघाताद् बुद्धिः सजायते, यका बुदिमहानिति उच्यते, महच्छब्देन कीर्त्यते । एवमेतन्नान्यथा,' 'गौरेवाय नाश्वः, 'स्थाणुरेष नायं पुरुष' इत्येवं निश्चयेन पदार्चप्रतिपत्तिहेतुर्योऽध्यवसायः सा बुद्धिरिति । तस्यास्त्वष्टौ रूपाणि तदर्शनविश्रुतानि, यदाह-६५१धर्मज्ञानवैराग्यैश्वर्यरूपाणि चत्वारि सात्त्विकानि, अधर्मादीनि तु तत्प्रतिपक्षभूतानि चत्वारि तामसानीत्यष्टो"। ततो बुद्धरहङ्कारः, स चामिमानात्मकः, यथा-'अहं शब्दे' 'अहं रूपे' 'अहं रसे' 'अहं स्पर्श' 'अहं गन्वे' 'अहं स्वामी' अहमीश्वरो' 'ऽसौ मया इतः' ' अहं त्वां हनिष्यामी'त्यादि प्रत्ययरूपः । तस्मादहकारात् षोडशको गणो 'जायत' इत्यध्याहारोऽस्ति मवतीत्यादिवत् २ । पञ्च बुद्धीन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, एकादशं मनः, पश्च 'तन्मात्राणि च षोडशको गणः । तथा मा(चा)हेश्वरकृष्णः-५३
+त्रयाद् या बुद्धिः ध. पु. । ४ महाशब्देन ध.। ५१. पश्यत स्या. मं. पृ १२१ तमम् ।
५२. तथा चोक्तम् -"प्रकृतेहाँस्ततोऽहंकारस्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ॥ (सां. का. २२) इति सर्वदर्शन सङ्ग्रहे पृ. ३१९ (गायकवाडसीरोझ-वडोदरा )। १ भूतानि जं.।
५३. सां, का. ३, स्या० मं० (पृ. १२१)