SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ विद्या टीका ग्लो० ३८-३९ ] “ मूलप्रकृतिरविकृतिः, महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो, न प्रकृतिनै विकृतिः पुरुषः ॥" (२१)॥ इति । ॥३७॥ पोडशकगणमेवाहस्पर्शनं रसनं घ्राणं, चक्षुः श्रोत्रं च पश्चमम् । पञ्च बुद्धीन्द्रियाण्याहु-स्तथा कर्मेन्द्रियाणि च ॥३८॥ पायूपस्थवचःपाणि-पादाख्यानि मनस्तथा। अन्यानि पञ्च रूपाणि, तन्मात्राणि च षोडश ॥३९॥ युग्मम् ॥ व्याख्या-पश्च बुद्धीन्द्रियाणीति सम्बन्धः । स्पर्शनं त्वगिन्द्रियं, रसनं जिवा, घ्राणं नासिका, चक्षुःनेत्र, पञ्चमं च श्रोत्रं कर्ण इति, एतानि पञ्च बुद्धिप्रधानानि-बुद्धिसहचराण्येव ज्ञानं जनयन्तीति कृत्वा बुदीन्द्रियाण्याहुः कथयन्ति तन्मतीया इति । तथा कर्मेन्द्रियाणि चेति, तथेति पूर्वोद्दिष्टां पश्चसङ्ख्यामात्रामपि परामशति, तान्येवाह-पायूपस्थवचापागिपादाख्यानीति, पायुरपानं, उपस्थः प्रजननं, वचो वाक्यं, पागिर्हस्तः, पादश्चरणः, तदास्यानि पश्च कर्मेन्द्रियाणि-कर्मक्रियाव्यापारसाधनानीन्द्रियाणीति - 'पादि-तन्मात्राणीत षों ध.। * त्राणि परा जं.।
SR No.022448
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVijayjambusuri
PublisherMuktabai Gyanmandir Sansad
Publication Year1950
Total Pages194
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy