SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ विद्या० टीका ग्लो ३४-३५ ] व्याख्या-केचित् साङ्ख्याः 'निरीश्वराः' ईश्वरं देवतया में मन्यन्ते-केवलमध्यात्मवे(वा)दिनः । केचित् पुनरीश्वरदेवताः महेन्चरं स्वशासनाधिष्ठातारमाहुः । सर्वेषामपि तेषां-केवलनित्यात्मवादिनामीश्वरदेवतानां च सर्वेषां साङख्यमतानुसारिणां वासने 'पञ्चविंशतिस्तत्त्वानां स्यात् । तत्त्वं ह्यपवर्गसाधकं बीजमिति सर्ववादिसंवादः । यदुक्तम् ४५पञ्चविंशतितत्त्वज्ञो. यत्र तत्राश्रमे रतः। - जटो मुण्डी शिस्त्री वापि, मुच्यते नात्र संशयः ॥ (१९) तन्मते पञ्चविंशतिस्तत्त्वानीत्यर्थः ॥ ३४ ॥ गुणत्रयमाहसत्वं रजस्तमश्चेति, ज्ञेयं तावद्गुणत्रयम् । प्रसादतोषदैन्यादि-कार्यलिङ्गं क्रमेण तत् ॥३५॥ व्याख्या-'तावदिति प्रक्रमे, सत्त्वं रजस्तमश्चेति गुणत्रयं ज्ञेयम् । तद्गुणत्रयं 'क्रमेण ' परिपाट्या 'प्रसादतोषदैन्यादि कार्यलिङ्गं,' गुणत्रयेणेदं लिङ्गत्रयं क्रमेण जन्यते । सत्त्वगुणेन प्रसाकार्यलिङ्गम्-वदननयनादिप्रसन्नता सत्वगुणेन स्यादित्ययः, रजो ४५ सां. का. ६४। ४६. ' तापः ' इति बृहद्वृत्तौ पाठः। (पृ. ३७१)।
SR No.022448
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVijayjambusuri
PublisherMuktabai Gyanmandir Sansad
Publication Year1950
Total Pages194
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy