SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ५४ [ षड्दर्शनस यदि बया'धुक्तं सामान्यमैन्द्रियकं नित्यं तद्धि सर्वगतमसर्वगतस्तु शब्द इति सोऽयमनित्यः शब्द ' इति पूर्व प्रतिज्ञातः प्रतिज्ञान्तर'मसर्वगतः शब्द' इति प्रतिज्ञान्तरेण निगृहीतो भवति २ । - मतिज्ञाहेत्वोविरोधः प्रतिज्ञाविरोधो' नाम निग्रहस्थानं भवति, यथा-गुणव्यतिरिक्तं द्रव्यं रूपादिभ्योऽर्थान्तरस्यानुपलब्धेरिति, सोऽयं प्रतिज्ञाहेत्वोविरोधो, यदि गुणव्यतिरिक्तं द्रव्यं कथं रूपादिभ्योान्तरस्यानुपलब्धिः? अथ रूपादिभ्योान्तरस्यानुपलब्धिः कथं गुणव्यतिरिक्तं द्रव्यमिति ? उदयं प्रतिज्ञाविरुद्धामिधानात् पराजीयते ३। . पक्षसाधने परेण दूषिते तदुद्धरणाशक्त्या प्रतिज्ञामेव निनुवानस्य ' प्रतिज्ञासन्न्यासो' नाम निग्रहस्थानं भवति, यथाऽनित्या शब्द ऐन्द्रियकत्वादि'त्युक्ते तथैव सामान्येनानैकान्तिकतायामुद्भावितायां यदि ब्रूयात्-'क एवमाहानित्यः शब्द' इति प्रतिज्ञासन्न्यासात् पराजितो भवतीति ४ । ___अविशेषाभिहिते हेतौ प्रतिषिद्धे तद्विशेषणमभिदधतो 'हेत्वन्तरं' नाम निग्रहस्थानं भवति, तस्मिन्नेव प्रयोगेतथैव सामान्यस्य व्यभिचारेण दूषिते 'जातिमत्त्वे सती'त्यादिविशेष(ण)मुपाददानो हेत्वन्तरेण निगृहीतो भवति ५। १. 'रोधे प्र ध।
SR No.022448
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVijayjambusuri
PublisherMuktabai Gyanmandir Sansad
Publication Year1950
Total Pages194
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy