SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ विद्या० टोका श्लो० ३१ ] सहिं तयोः सव्येतर गोविषाणयोरिव साध्यसाधनभाव एव न भवेदिति १६ । अर्थापत्या प्रत्यवस्थानमर्थापत्तिसमा जातिः, ' यद्य नित्यसाधयत् कृतकत्वादनित्यः शब्दोऽर्थादापद्यते नित्यसाधर्म्यान्नित्य इति, अस्ति चास्य नित्येनाकाशादिना साधर्म्य निरवयवत्वमित्युद्भाareकारभेद एवायमिति १७ । ४९ अविशेषापादनेन प्रत्यवस्थानमविशेषसमा जातिः, यथा - 'यदि शब्दघटयोरेको धर्मः कृतकत्वमिष्यते तर्हि समानधर्मयोगाचयोरविशेषे तद्वदेव सर्वपदार्थानामविशेषः प्रसज्यत' इति १८ । उपपत्त्या प्रत्यवस्थानमुपपत्तिसमा जातिः, यथा-'यदि कृतकत्वोपपत्या शब्दस्यानित्यत्वं निरवयवोपपत्त्या नित्यत्वमपि कस्मान्न भवति ? पक्षद्वयोपपयाऽनध्यवसाय पर्यवसानत्वं विवक्षितमि' त्युद्भावनप्रकारमेद एवायम् १९ । - उपलब्ध्या प्रत्यवस्थानमुपलब्धिसमा जातिः, यथा 'ऽनित्यः शब्दः प्रयत्नानन्तरीयकत्वादि' ति प्रयुक्ते प्रत्यवतिष्ठते - 'न खलु मयत्नानन्तtयकत्वमनित्यत्वे साधनम्, साधनं हि तदुच्यते येन विना न साध्यमुपलभ्यते, उपलभ्यते च प्रयत्नानन्तरीयकत्वेन विनापि विद्युदादावनित्यत्वं, शब्देऽपि क्वचिद्वायुवेगभज्यमानवनस्पत्यादिजन्ये तथैवे 'ति २० । १. नित्ये साधनं हि जं. पु. ।
SR No.022448
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVijayjambusuri
PublisherMuktabai Gyanmandir Sansad
Publication Year1950
Total Pages194
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy