SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ १० [ षड्दर्शनस दर्शनम् ६ । चः समुच्चयस्पर्शकः । एवं तावत् षड्दर्शननामानि ज्ञेयानि शिष्येणेत्यवसेयम् ||३|| अर्थं द्वारश्लोके प्रथममुपन्यस्तत्वाद् बौद्धदर्शन मे वदावाचष्टेतत्र बौद्धमते तावद्, देवता सुगतः किल । चतुर्णामार्यसत्यानां दुःखादीनां प्ररूपकः ||४|| व्याख्या—'तत्र' तस्मिन् 'बौद्धमते' सौगर्तशासने 'तावद्' इति प्रक्रमे 'सुगतो देवता' बुद्धो देवता - बुद्धभट्टारको दर्शनादिकरः । 'किल' इत्याप्तप्रवादे । तमेव विशिनष्टि तत्त्वनिरूपकत्वेनकथम्भूतो देवता ? ' प्ररूपकः' दर्शकः कथयितेति यावत् । केषाम् ! इत्याह- 'आर्य सत्यानाम्' आर्यसत्यनामधेयानां तत्त्वानाम् । कति- 10 संख्यानाम् ? इति - 'चतुर्णां ' चतूरूपाणाम् । किंरूपाणाम् ? इत्याह'दुःखादीनां दुःख समुदय-मार्ग (र्ग) निरोधलक्षणानां, आदिशब्दोऽवयवार्थोऽत्र । यदुक्तम् 'सामीप्येऽथ व्यवस्थायां प्रकारेऽवयवे तथा । चतुष्वर्थेषु मेधावी, आदिशब्दं तु लक्षयेत् ॥” (५) इति । एवंविधः सुगतो बौद्धमते देवता ज्ञेय इत्यर्थः ॥ ४ ॥ ८८ * 'थ यथा द्वार पु. । + वाचष्टे ध. । A तदर्शने ध. । B बौद्धो जं. पु. । C प्येऽपि व्य . 15
SR No.022448
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVijayjambusuri
PublisherMuktabai Gyanmandir Sansad
Publication Year1950
Total Pages194
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy