SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १६ [ षड्दर्शनस D जातिषु विविधोत्पत्तिरूपान् परिणामाननुभवतीति जीव इत्यर्थः । अन्यच्च शुभाशुभं कर्म कर्त्ता, शुभं सातवेथं, अशुभम् - असातावेद्यं, शुभं चाशुभं चेति द्वन्द्वः, एवंविधं कर्म - भोक्तव्यफलं कर्तृभूतं, कर्त्ता - स्वात्मसाद्विधाता उपार्जयितेति यावत् न च सांख्यवद , + कर्त्तात्मा शुभाशुमाबन्धकश्चेति । तथा कर्मफलं भोक्ता, न च केवलः कर्त्ता किन्तु भोक्ताऽपि स्वोपार्जित पुण्यपापकर्म फलस्य वेदयिता, न चान्यकृतस्यान्यो भोक्ता । तथा चागमः " जीवे णं भंते किं अत्तकडे दुक्खे परकडे दुःखे तदुभयकडे दुक्खे ! गोयमा ! अतकडे दुक्खे, नो परकडे दुक्खे, नो तदुभयकडे दुक्खे'। इति कर्नैव भोक्ता । तथा चैतन्यलक्षण इति, ' चैतन्यं ' चेतनास्वभावत्वं तदेव 'लक्षणं' मूलगुणो यस्येति, सूक्ष्मबादरभेदा एकेन्द्रियातथा विकलेन्द्रियास्त्रयः संज्ञा (च) संज्ञिभेदाच पंचेन्द्रियाः सर्वेऽपि पर्याप्ता अपर्याप्ताश्चेति चतुर्दशापि जीवभेदाश्चैतन्यं न व्यमिचरन्तीति । अथाजीवमाह 5 x यश्च तद्वैपरीत्यवान् अजीवः स समाख्यात इति, यः पुनस्वस्माज्जी वलक्षणाद्वैपरीत्यम्-अन्यथात्वमस्यास्तीति 'तद्वैपरीत्यवान', विपरीतस्वभावोऽचेतनः, सोऽजीवः समाख्यातः कथितः पूर्वसूरि+ भो' ध । x यचैतद्वै ध. ।
SR No.022448
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVijayjambusuri
PublisherMuktabai Gyanmandir Sansad
Publication Year1950
Total Pages194
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy