________________
[ षड्दर्शनस० . पुरुषगुणानाह-दिगुण इति, सत्त्वरजस्तमोरूपगुणत्रयविकला, क्या भोक्ता भोगी, एवम्भकारः पुमांस्तत्त्वं-पञ्चविंशतितमं तत्त्वमित्यर्थः, तथा नित्यचिदश्युपेतः नित्या यासौ चिच्चैतन्यशक्तिस्तयाऽभ्युपेतः सहितः । आत्मा हि स्वं बुद्धरव्यतिरिक्तमभिमन्यते, मुखदुःखादयश्च विषया इन्द्रियद्वारेण बुद्धौ संक्रामन्ति, बुदिश्वोभयमुखदर्पणाकारा, ततस्तस्यां चैतन्य शक्तिः प्रतिबिम्बते, ततः मुख्यहं दुःख्यहमित्युपचर्यते । आह च पतञ्जलिः- "शुद्धोऽपि पुरुषः प्रत्ययं बौद्धमनुपश्यति, तमनुपश्यन्नऽतदास्मापि तदात्मक इव प्रतिभासते " इति ॥
मुख्यतस्तु चिच्छक्तिविपयपरिच्छेदशून्या, बुद्धेरेव विषयपरि च्छेदस्वभावत्वात, चिच्छक्तिसनिधानाचाऽचेतनापि बुद्धिश्चेतनावतीवाऽवभासते । “वादमहार्णवोऽप्याह
"बुद्धिदर्पणसंक्रान्तमर्थप्रतिबिम्बकं द्वितीयदर्पणकल्पे :पुंस्य. ध्यारोहति, तदेव भोक्तृत्वमस्य, न तु विकारापत्तिः" इति ।
५८ प्रत्यहं ' इति स्या० मं० पृ. १२२ । १ “असुखदुःखादिमयोऽपि अबुद्धिप्रत्ययोऽपि" घटिप्पणी।
५९. 'वेदान्तग्रन्थविशेषः,...' सम्मतितर्कटीका वेति स्था० मं० टीप्पण १, पृ. १२३ । x पुंस्यध्यवरोहति ध.।
६०. “न स्वात्मनो वि." इति स्था० में पृ. १२३ ।