SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ३८ प्रमोदाविवृतिसंवलितं वृत्तित्वबोधे च प्रकृतप्रयोगस्याप्यनापत्तेरिति चेत्, न स्यादेव, एतादृशस्थले समुदितवृत्तित्वबोध एव व्यवहारसामर्थ्यात्, सङ्ग्रहाश्रयणात् तु सामान्यत एव साकाङ्क. त्वात् स्यादपि। ऋजुसूत्रस्तु ब्रूते-पञ्चविधः प्रदेश इत्युक्ते प्रतिस्वं पश्वविधत्वान्वयात् पञ्चविंशतिविधत्वप्रसङ्गः। न च सामान्यतस्तदन्वयान्न बाध इति वाच्यम् , विशेषविनिर्मोकेण तदसिद्धेः। किञ्च, किमत्र पञ्चविधत्वम् ? पञ्चप्रकारत्वप्रकृतप्रयोगस्यापि घट-पटयो रूपमिति प्रयोगस्यापि । अत्रेष्टापत्तिमेव समाधानतयाऽऽह- न स्यादेवेति-व्यवहारनये घट-पटयो रूपमिति प्रयोगो न भवेदेवेत्यर्थः। एतादृशस्थले घट-पटयो रूपमित्यादिप्रयोगस्थले च । समुदितवृत्तित्वबोध एव एकव्यक्तिधर्मिकोभयाद्यात्मकसमु. दितवृत्तित्वबोध एव । तत् किं भयान्तरेऽप्युक्तप्रयोगो न भवत्येव ? भवति चेत् , कुत्र भवतीत्यपेक्षायामाह-सङ्ग्रहाश्रयणात् त्विति-सङ्ग्रहनये रूपत्वेन सामान्येन रूपमात्रस्यैकीकरणाद् घटे यद् रूपम् , यच्च पटे तदुभयमपि रूपत्वेन सामान्येनैकमिति तद् घटे पटे च वर्तत इति सङ्ग्रहनयाऽऽश्रयणाद् घट-पटयो रूपमिति प्रयोगो भवेदपीत्यर्थः । व्यवहारनये पञ्चविधः प्रदेश इति व्यपदेश उपपादितस्तमसहमानस्य ऋजुसूत्रस्य यद् वक्तव्यं तदाह-ऋजुसूत्रस्तु ब्रूत इति । प्रतिस्वं प्रतिप्रदेशव्यक्ति । धर्मास्तिकायप्रदेशः पञ्चविधः, अधर्मास्तिकायप्रदेशः पञ्चविधः, आकाशास्तिकायप्रदेशः पञ्चविधः, जीवास्तिकायप्रदेशः पञ्चविधः, स्कन्धप्रदेशः पञ्चविध इत्येवं पञ्चविंशतिविधत्वप्रसङ्ग इत्यर्थः। न च इत्यस्य ‘वाच्यम्' इत्यनेनान्वयः। सामान्यतः प्रदेशत्वेन प्रदेशे। तदन्वयात् पञ्चविधत्वान्वयात् । न बाधः न प्रदेशे पञ्चविधत्वस्य बाधः। विशेषविनिर्मोकेण धर्मास्तिकायप्रदेशादिव्यतिरेकेण ।
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy