SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ नयरहस्यप्रकरणम्। रणः स्यात् , यथा-"पश्चानां गोष्ठिकानां हिरण्यम्" इति, प्रकृते तु प्रत्येकवृत्तिः प्रदेश इति पञ्चविधः प्रदेश इति भणितव्यम् । नन्वेवं घटपटयो रूपमित्यपि न स्यात् , द्वित्वाश्रयवृत्तित्वबोधे तयोर्घटरूपमित्यस्याप्यापत्तेः, द्विपञ्चानां प्रदेश इति व्यपदेशो न सम्भवति, किन्तु धर्मस्य प्रदेशः, अधर्मस्य प्रदेशः, आकाशस्य प्रदेशः, जीवस्य प्रदेशः, स्कन्धस्य प्रदेश इत्येवं पञ्चविधः प्रदेश इति वक्तव्यमिति समुदितार्थः। साधारणः पञ्चानां सम्बन्धी एकप्रदेशः। स्याद् भवेत् । गोष्टिकानाम्एका गोष्टी सभामालम्ब्य स्थितानां जनानामेकद्यूतादिव्यवहारिजाम् । प्रकृते तु धर्मास्तिकायादिप्रदेशविचारे तु । प्रत्येकवृत्तिःएकैकमात्रसम्बन्धी । इति एतस्मात् कारणात् । ननु घटे यद् रूपं तदेव न पटे इति रूपमपि नैकं साधारणम् , किन्तु प्रत्येकवृत्त्येवेति घट-पटोभयनिरूपितवृत्तित्वस्य प्रत्येकं रूपेऽभावाद् घट-पटयो रूपमित्यपि व्यपदेशो व्यवहारनये न स्यादित्याशङ्कतेनन्वेवमिति । ननु घट-पटोभयगतं यद् द्वित्वं तदाश्रयनिरूपितवृत्तित्वमेव रूपे ततः प्रतीयते, द्वित्वाश्रयश्च केवलो घटोऽपि भवति पटोऽपि च, तन्निरूपितवृत्तित्वं घटरूपे पटरूपे च समस्तीति घट-पटयो रूपमित्यस्य नानुपपत्तिरित्यत आह-द्वित्वाश्रयेति। तयोः घट-पटयोः, घट-पटयोर्घटरूपमित्यस्य घट-पटगतद्वित्वाश्रयनिरूपितवृत्तितावद् घटरूपमित्यर्थकत्वेन तादृशद्वित्वाश्रयघटनिरूपितवृत्तित्वस्य घटरूपेऽवाधिततया तद्बोधस्य प्रामाण्यापत्तेरित्यर्थः । यदि च घट-पटयोर्घटरूपमित्यस्य घट-पटोभयनिरूपितवृत्तित्ववद् घटरूपमित्येवार्थः, तस्य च बाधितत्वेन नाभ्रान्तस्य तादृशप्रयोगापत्तिरिति विभाव्यते, तदा घट-पटयो रूपमित्यस्यापि घट-पटोभयनिरूपितवृत्तितावद् रूपमित्यर्थकत्वेन कुत्रापि रूपे उभयनिरूपितवृत्तित्वस्याभावान्नोक्तप्रयोगस्यापि सम्भव इत्याह-द्विवृत्तित्वबोधे चेति ।
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy