SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ प्रमोदाविवृतिसंवलितं ननु जात्यन्तरत्वेऽपि प्रत्येकदोषनिवृत्तिरिति नैकान्तः, पृथक् स्निग्धोष्णयोः कफ-पित्तविकारित्वक्त् समुदितस्निग्धोष्णस्यापि माषस्य तथात्वादिति चेत्, न- माथे स्निग्धोष्णत्वयोर्जात्यन्तरात्मकत्वाभावाद,अन्योऽन्यानु. वेधेन स्वभावान्तरभावनिबन्धनस्यैव तत्त्वात् , अत्र च स्निग्धोष्णत्वयोगुञ्जाफले रक्तत्व-कृष्णत्वयोरिव खण्डशो व्याप्त्याऽवस्थानात् , जात्यन्तरात्मकस्निग्धोष्णत्वशालिनि च दाडिमे लेष्म-पित्तोभयदोषाकारित्वमिष्ट. मेव, "स्निग्धोष्णं दाडिमं रम्यं श्लेष्म-पित्ताविरोधि च" । इति वचनादिति सम्प्रदायः॥ तस्य निवृत्तिः समुदितत्वेन जात्यन्तरभावापन्नाद् भवतीति नास्ति नियमः, प्रत्येकस्वभावजनितो यादृशो दोषस्तादृशस्य दोषस्य सनु दितस्वभावतोऽपि जायमानत्वाद् , यथा पृथक्स्निग्धोपकार्ययोः कफ-पित्तयोः समुदितस्निग्धोप्णस्वभावमापतो भाव इति जात्यन्तरेऽपि भेदाभेदात्मकत्वेन वस्तुनि प्रत्येकपक्षोक्तदोषः स्यादेवेति शङ्कते-नन्विति । नैकान्तः, न नियमः । तथत्वात् कफपित्तकारित्वात् । यत्र सम्पूर्णव्याप्त्याऽन्योऽन्यानुवेधस्तत्रैव स्वभावान्तरभावनिवन्धन जात्यन्तरत्वम् , तत्र च प्रत्येकदोषनिवृत्तिः, माषे च न सम्पूर्णव्याप्त्या स्निग्धोष्णत्वयोर्भाव इति न जात्यन्तरत्वम् , जात्यन्तरत्याभावादेव च ततः प्रत्येकदोषकार्यभावः, जात्यन्तरात्मकाञ्च स्निग्धोष्णस्वभावाद दाडिमान्न भवत्येव श्लेष्मपित्तप्रादुर्भाव इति पूर्योक्तो निय. मोऽवाधित एवेति, समाधत्ते-नेति । तत्त्वात् , जात्यन्तरत्वात् । अत्र व माघे तु । दाडिमे जात्यन्तरे श्लेष्म-पित्तोभयदोषाकारित्वे प्राचा संवादमाह-स्निग्धोष्णमिति । भवनु वा जात्यन्तरेऽपि कवित् प्रत्येक कार्यभावः, तावताऽपि व्याप्त्या तत्रोभयसमावेशो भवति यथा
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy