________________
नयरहस्यप्रकरणम्।
१२
भवप्रसङ्गात् , एकस्वभावत्वे दोषद्वयोपशमाहेतुत्वप्रसङ्गान् , उभयजननैकस्वभावस्य चानेकत्वगत्वेन सर्वशैकत्वायोगाद एकया शत्तयोभयकार्यजननेऽतिप्रसाद विभिन्नस्वभावानुभवाच । तस्मान्माधुर्य-कटुकत्वयोः पर स्परानुवेधनिमित्तमेवोभयदोषनिवर्तकत्वमित्यादरणीयम्। लाय त्याह-- एकम्वभावत्र इति-रकस्वभावस्यैकदोषशमहतुत्वमेव स्याद न पित्तकफात्मकदोषद्वयोपशमहेनुत्वमिति तदभावप्रमादित्यर्थः।ना कफशमन-पित्तशमनोभयजनकत्वलक्षणेकस्वभावत्वेऽपि नद्रव्यस्य दोषद्वयोपशमोपपत्तिः स्यादेवेत्यत आह-उभयेति-कफशमन-पित्तशमनोभयेत्यर्थः । अनकत्वगर्भवेति-उक्तस्वभावो हि कारणत्वपायचलितः, कारणत्वं च कार्याव्यवहितप्राक्क्षणावच्छेदेन कार्यसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वरूप कार्यघटितम् , कार्थ च प्रकृते कफशमनं पित्तशमनं विभिन्नमिति तद्भदेनोक्तस्वभावोऽपि भिन्न एवेति तस्य सर्वथैकत्वासम्भवादित्यर्थः । ननु कारणत्वमतिरिक्तमेव न कार्यघटितम् , कार्यस्यानेकत्वेऽपि चाकच्छेदकैक्यात् कारणत्वमेकम् , स्वावच्छेदकभेदे च भिन्नं तद् भवतिः प्रकृते च गुडशुण्ठीद्रव्यरूपं यदेकं द्रव्यान्तरं तस्योभयकार्यानु:लयकयैव शकन्योक्तकार्यद्वयं प्रति जनकत्वमिति न स्वभावमेट इत्यत आह-- एकयति-कारणवैलक्षण्यप्रयोज्यं हि कार्यवेलक्षण्यं भवति.. कारणस्यावलक्षण्ये कार्येणाऽप्यविलक्षणेनैव भवितव्यम् . गवं च येन शक्तिमता कारणेन पित्तशमनं जायते तेनैव यदि कफशमनं तदा कफशमनमगि पित्तशमनं स्यात् पित्तशमनमपि कफशमनं स्यादित्येवमतिप्रसङ्गादित्यर्थः । विभिन्नस्वभावानुभवाफ समुदितगुशुण्ठीद्रव्य विलक्षणमाधुर्यस्वभावोऽप्यनुभूयते विलक्षणाकटुकन्चस्वभावोऽप्यनाभूयत इति प्रत्येकगुशुण्ठीद्रव्यस्वभावयोरेव समुदितावस्थादः विलक्षणतयाऽनुभवाजात्यन्तरमेवास्थेयम् । उपसंहगति-- तुम्मादितिविभिन्न स्वभावानुभवादित्यर्थः । ननु प्रत्येकं यतो यो दोषो जायने