SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ विषयताद वे विध्यनिरूपणम् ] [ ६१ त्याकारकज्ञानविषयतातः: 'घटवान् पर्वतो वह्निमद् भूतलमि'त्याकारकज्ञानविषयताया अवैलक्षण्यप्रसङ्गात् । मन्मते प्रथमे घटप्रकारकत्व भूतलविशेष्यकत्व योर्वह्निप्रकारत्व पर्वतविशेष्यत्व-योश्च परस्परं निरूप्यनिरूपकभावः, द्वितीये च वह्निप्रकारक त्वभूतल विशेष्यत्वयोर्घटप्रकारत्व पर्वतविशेष्यत्वयोरिति वैलक्षण्योपपत्तिः । एवं च, 'घटवद् भूतलम् घटवान् पर्वत' इत्याकारकसमूहालम्बने घटादिरूपैकैकप्रकारनिष्ठप्रकारताया अपि भूतलपर्वतादिविशेष्यभेदेन 'घटवद् भूतलं पटवच्चे' त्यादिसमूहालम्बने च भूतलाद्येकैकनिष्ठविशेष्यताया अपि घटपटादिप्रकारभेदेन भेदो बोध्यः । उभयविशेष्यतानिरूपितत्वस्यैकप्रकारतायां उभयप्रकारतानिरूपितत्वस्य चैकविशेष्यतायां स्वीकारे तादृशसमूहालम्बनादावतिरिक्तविषयता कल्पनप्रसङ्गात् । मन्मते 'घटवद् भूतलमि'त्याद्याकारकप्रत्येकज्ञानी' यप्रत्येक विशेष्यतानिरूपितप्रकारताभ्यां प्रत्येकप्रकारतानिरूपितविशेष्यताभ्यामेवोपपत्तेः । समूहालंबने प्रकारताभेदेन विशेष्यत्वाभेदे 'घटवद् भूतलं पटवच्चे त्यादिसमूहालम्बना ' देकत्र द्वयमिति रीत्या एकधर्मिणि नानाधर्मवैशिष्टयावगाहि 'घटवद् भूतलं पटवदि त्यादिज्ञानस्य वैलक्षण्यप्रसङ्गः । मम तु समूहालम्बने प्रकार १- 'व्यनिरूपिताप्रत्येक विशेष्यता निरूपित प्रकारताभ्यां ' इति दे।
SR No.022440
Book TitleVadsangraha
Original Sutra AuthorN/A
AuthorYashovijay Upadhyay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1975
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy