SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ६० ] [विषयतावादे क्षण्यमुपपत्स्यते इति वाच्यम् . संबम्धसबम्धमादायापि समूहालम्बनसंभवात् । तस्माद् ज्ञानविषयाभ्यामतिरिक्तमेव विषयत्वमित्यनन्यगत्या स्वीकरणीयम् । तच्चाश्रयतया विषये ज्ञाने च निरुपकतासंबंधेन वर्तत इति । एतेन विषयित्वमपि व्याख्यातम् । न च विषयताप्रतियोगित्वमेव विषयित्वमस्तु, किं तस्यातिरिक्तत्वस्वीकारेण ? इति वाच्यम् , विषयित्वमेवातिरिक्तं तत्प्रतियोगित्वमेव विषयत्वमित्यस्यापि वक्तु शक्यत्वात् तस्माद् विनिगमनाविरहेणोभयमेवातिरिक्तम् । विषयत्वादिकं तु विषयभेदेन भिद्यतेऽन्यथा 'घटवद्भूतलमित्यादि'ज्ञानीयघटभूतलादिविषयतानां 'घटापटावि'त्यादि'ज्ञानीयघटपटादिविषयतानां चाभेदप्रमङ्गेन पूर्वोक्तानुपपत्तितादवस्थ्यात् । न तु ज्ञानव्यक्तिभेदेनापि तद्भेदो, मानाभावात् । । तच्च द्विविधम् , किंचिद् विषयत्वाऽनिरूपितं तनिरूपितं च । तत्र निर्विकल्पकनिरूपितविषयता विषयत्वानिरूपिता निर्विकल्पकीयघटत्वादिविषयताया घटादिविषयतानिरूपितत्वे मानाभावाद् । विशिष्टबुद्धिविषयता च विषयत्वांतरनिरूपिता, प्रकारताविशेष्यतासंसर्गतारूपाणां तासां परस्परं निरुप्यनिरूपकभावसत्त्वात् । अन्यथा 'घटवद् भूतलम् पर्वतो वह्निमानि' १-'दिजातीय'० इति दे० । २- दिविजातीय' इति दे ।
SR No.022440
Book TitleVadsangraha
Original Sutra AuthorN/A
AuthorYashovijay Upadhyay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1975
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy