SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ विशदीकरण-श्लो० १२] [१६ याए-शरीरापचयकारि-शोकानुत्पादनेन, अतिप्पणयाए त्ति अश्रुलालादिक्षरणकारिशोकानुत्पादनेनः अपिट्टणयाएत्ति यष्टः यादिपीडनपरिहारेण, अपरितावणयाए-शरीरपीडानुत्पादनेनेति वृत्तिः ॥ वस्तुनो अनिवर्त्तनीयाशुभानुबन्धं कर्कशवेदनीयम् , अतादृशमकर्कशवेदनीयम् । वैमानिकादिषु तनिषेधश्च प्रोढिवादः विशिष्टविरतिपरिणामजनिताऽशुभानुबन्धापनयापेक्षया । अन्यथा मिथ्यादर्शनशल्यविरमणस्याऽपि तत्र नैष्फल्यापत्तेः; सर्वसंवरस्य च शैलेश्यामेव सम्भवादिति द्रष्टव्यम् । एतेन "देवेष्वकर्कशवेदनीयकर्मकरण निषेधादेव द्रव्यस्तवस्य न तद्धेतुत्वमिति"दुर्वादिमतमपास्तं, ज्ञेया सकामायमिनामि' (योगशास्त्रे) त्यादिवदीदृशप्रौढिवादानामुत्कृष्टनिषेधपरत्वादन्यथा तदीयभगवद्वन्दनगुणोत्कीर्तनादीनामप्यतादृशत्वाऽऽपत्तेरिति विभावनीयं सुधीभिः ॥११॥ __ननु द्रव्यस्तवे भक्तिजन्यसातावेद्यबन्धेन विरुध्यन्नसातबन्धो मा भूत् , पृथिव्याधुपमर्दात् ज्ञानावरणीयादिबन्धहेतुत्वादेव तस्य हिंसात्वमक्षतमित्याशङ्कायामाहधुवषन्धिपावहे उत्तणं ण दव्वत्थयंमि हिंसाए । धुवषन्धा जमसज्झा, तत्ते इयरेयरासयया ॥१२॥ ध्रुवबन्धिपापस्य ज्ञानावरणादिप्रकृतिकदम्बकरूपस्य हेतुत्वं नद्रव्यस्तवीयहिंसायां वक्तु युक्तम् । यद्-यस्मात् ध्रुव
SR No.022440
Book TitleVadsangraha
Original Sutra AuthorN/A
AuthorYashovijay Upadhyay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1975
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy