SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ महोपाध्याय - न्यायविशारद - न्यायाचार्य पण्डितशिरोमणि श्रीमद्य शोविजय गणिविरचिता || वादमाला ( ३ ) ॥ ऐ नमः || ऐन्द्रश्रेणिनतं नत्वा जिनं तत्त्वार्थदेशिनम् । वादमालां वितनुते यशोविजयपण्डितः ॥ १ ॥ तत्र पूर्व वस्तुलक्षणं विविच्यते । सामान्यविशेषात्मकं वस्तु । तत्र सामान्यमनुवृत्तिप्रत्ययाऽसाधारण हे तुर्वस्त्वंशः । भवति खलु भिन्नप्रदेशकनानाव्यक्तिविशेष्य कैकत्वप्रकारकप्रतीतौ तादात्म्येन तिर्यक्सामान्यं हेतुः । एकप्रदेशकनानापर्यायव्यक्तिविशेष्यकैकत्वप्रकारकप्रतीतौ च तादात्म्ये नोर्ध्वता सामान्यं हेतुरित्येतद्विविधमप्यनुवृत्तिप्रत्ययाऽसाधारणकारणमिति । विशेषो व्यावृत्तिप्रत्ययाऽसाधारण हेतुर्वस्त्वंशः । भवति खल्वेकविशेष्यकानेकत्वप्रकारकप्रतीतौ तादात्म्येन विशेषो हेतुरिति । न च 'घटा अनेके' इति प्रतीतावने कविशेष्यकत्वस्यैवानुभवादसंगतमेतदिति वाच्यम्, विशेषग्रहणाभिमुखक्षयो पशमसामर्थ्यादेकविशेष्यकानेकत्वप्रकारकबोधेऽपि तथाभिलापसम्भवादेकसामान्यतादात्म्याऽऽपन्नव्यक्तीनां कथंचिदेकत्वस्याप्यविरोधादिति । तदात्मकत्वं च तदुभयत्वम् । तच्च
SR No.022440
Book TitleVadsangraha
Original Sutra AuthorN/A
AuthorYashovijay Upadhyay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1975
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy