SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ६२ न्यायावतारः 0000000000000000000000000000000000000000000000000000000000...................... प्रत्यभिज्ञायते चांशतो विनष्टमपि पटादिकम् । न च नवोत्पन्न स्वस्वत्वमस्ति । तथा चासत्यालापा एवैकान्त नित्यवाद विचक्षणाः समापद्येरन् । स्याच्च तेषामेकान्तकान्तप्रविष्टानाम् अदर्शनीयमुखता श्रतिकुत्सितदोषास्पदानाम् । यतो वर्णिता वर्णिकामात्रमन्तर्याणिविशारदः सत्त्वस्यैकान्तनित्यत्वे कृतनाशाकृतागमौ । स्यातामेकान्तनाशेऽपि कृतनाशाकृतागमौ ॥ १ ॥ आत्मन्येकान्तनित्ये स्यान्न भोगः सुखदुःखयोः । एकान्तानित्यरूपेपि न भोगः सुखदुःखयोः ॥ २ ॥ क्रमाक्रमाभ्यां नित्यानां युज्यतेऽर्थक्रिया नहि । एकान्तक्षणिकत्वेऽपि युज्यतेऽर्थक्रिया नहि ॥ ३॥ [ वीत०] तथा 'नैकान्तवादे सुखदुःखभोगौ, न पुण्यपापे न च बन्ध मोक्षौ' । तथा 'य एव दोषाः किल नित्यवादे, विनाशवादेऽपि समास्त एवेति । उक्तं च पूज्यपादैरप्यन्यत्र सुहदुक्खसंपओगो न जुज्जर निचत्रायपक्खमि । एगच्छेअमिय सुहदुक्खवियप्पणमजुत्तं ॥१॥ कम्मं जोगनिमित्तं बज्झइ बंधट्ठिई कसायवसा । अपरिणउच्छिन्नंसु अ बंधट्ठकारणं नत्थि ॥२॥ बंधमि अपूरंते संसारभओह दंसणं मोज्झं । बंधं व विणा मुक्ख सुहपत्थणा नत्थि मोक्खो य ॥३॥ [सन्मति०] वाच्यावाच्योभयात्मकतापि पदार्थप्रचयस्य नियमितधर्मवाचकत्वाच्छब्दानामवशेषधर्मानुदीरणात् स्पष्टव । यद्वा नहि यावदितरपदार्थगतधर्मव्यावृत्तिसाधकशब्दप्रयोगः कर्तुं शक्यते । अस्ति
SR No.022439
Book TitleNyayavatara
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherAgmoddharak Granthmala
Publication Year1965
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy