SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ( ५२ ) कुर्वते नेतरे, ततः किमसौ निरवद्यैकरुचिर्भगवान् सावद्यानुबन्धिनि कलागुपदर्शने प्रववृते , उच्यते, समानुभावतो वृत्तिहीनेषु दीनेषु मनुजेषु दुःस्थतां विभाव्य सञ्जातकरुणैकरसत्वात् , समुत्पन्नविवक्षितरसो हि नान्यरससापेक्षो भवति बीर इव द्विजाय चीवरदाने । अथैवं तर्हि कथमधिकलिप्सवे तस्मै सत्यपि सकलेंऽशुके शकलस्य दानम् ?, सत्यं, भगवतश्चतुर्ज्ञानधरत्वेन तस्य तावन्मात्रस्यैव लाभस्यावधारणेनाधिकयोगस्य क्षेमानिर्वाहकत्वदर्शनात् , कथमन्यथा भगवदंसस्थलस्रस्ततच्छकलग्रहणेऽपि तदुत्थरिक्थाऽर्द्धविभाजकस्तुन्नवायः सञ्जायेत ? । किञ्च कलायुपायेन प्राप्तसुखवृत्तिकस्य चौर्यादिव्यसनासक्तिरपि न स्यात् ॥ ननु भवतु नामोक्तहेतोर्जगद्भर्तुः कलायुपदर्शकत्वं परं राजधर्मप्रवर्तकत्वं कथमुचितं ?, उच्यते, शिष्टानुग्रहाय दुष्टनिग्रहाय धर्मस्थितिसङ्ग्रहाय च, ते च राज्यस्थितिश्रिया सम्यक् प्रवर्त्तमानाः क्रमेण परेषां महापुरुषमार्गोपदर्शकतया चौर्यादिव्यसनानिवर्त्तनतो नारकातिथेयीनिवारकतया ऐहिकामुष्मिकसुखसाधकतया च प्रशस्ता एवेति, महापुरुषप्रवृत्तिरपि सर्वत्र परार्थत्वव्याप्ता बहुगुणाल्पदोषकार्यकारणविचारणापूर्विकैवेति । किञ्च युगादौ जगद्व्यवस्था प्रथमेनैव पाथिवेनैव विधेयेति जीतमपि इति ॥ स्थानाङ्गपञ्चमाध्ययनेऽपि-" धम्मं णं चरमाणस्स पंच णिस्साठाणा पण्णत्ता, तं जहा-छक्काया ?
SR No.022431
Book TitleJagat Kartutva Mimansa Prakaranam
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year1944
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy