________________
विशिष्टत्वात् सर्वत्रापीश्वरचेष्टेलिकमान विलक्षयपालनच्छिन्नविशेष्यतया तत्प्रयत्नस्य हेतुत्वात्नातिप्रसङ्ग इति चेत् ,
तर्हि चेष्टावैलक्षण्यसिद्धौ तथाहेतुत्वम् , तथाहेतुत्वे च तद्वैलक्षण्यसिद्धिरिति स्पष्टोऽन्योन्याश्रयः। किञ्च,स्वाधिष्ठातरि भोगाजनकशरीरादिसम्पादनमपि महेशस्यैश्वर्यमात्रमेव, इति दृष्टविरोधेनैव जगत्प्रवृत्तिरायाता । एतेनैतत्प्रतिक्षिप्तम् । हेत्वभावे फलाभावात्, प्रमाणेऽसति न प्रमा॥ तदभावात् प्रवृत्तिों , कर्मवादेऽप्ययं विधिः॥१॥ इति।।
कर्मणः कादिसापेक्षत्वेनैव जगद्धेतुत्वात् । समर्थितं च"धर्माधौं विना नाङ्गं, विनाऽङ्गेन मुखं कुतः १ ॥ मुखाद्विना न वक्तृत्वं, तच्छास्तारः परे कथम् ॥१॥"
इति, शरीरस्य स्वोपात्तनामकर्महेतुकत्वात् तद्वैचित्र्येण तद्वैचित्र्यात् । अन्यथाऽङ्गो-पाङ्गवर्णादिप्रतिनियमानुपपत्तेरिति, अन्यत्र विस्तरः ॥ तस्माद् मायाविवत् समयग्राहकत्वम् , घटादिसम्प्रदायप्रवर्तकत्वं च, पराभिमतेश्वरस्य मायावितामेव विद्याधरविशेषस्य व्यञ्जयति। पितुरिव पुत्रादेर्युगादौ. युगादीशस्य जगतः शिक्षया तु तथात्वं युक्तिमत्, स्वभावत एव तीर्थकृतां परोपकारित्वात् , अत एव " कुलालेभ्यो नमः" इत्याद्या श्रुतिः सङ्गच्छत इति युक्तं पश्यामः ॥ अनुमानेऽपि सिद्धसाधनं बोध्यम् । ननु भोग्यसत्कर्माण एवाहन्तो भगवन्तः समुत्पन्नव्याधिप्रतिकारकल्पं रुयादिपरिग्रहं