SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ( ३९ ) र्वात्मसाधारणत्वात् सर्वात्मगुणसाधारणत्वेन पुनरावेशकारणत्वं नेश्वरस्य युक्तिमत् कालादिवदिति कार्यत्वस्य कालिकेन घटत्व पटत्वादिमश्वरूपस्य नानात्वात्, ध्वंसव्यावृत्यर्थं देयस्य सवस्य विशेषणविशेष्यभावे विनिगमनाविरहेणातिगुरुत्वाच्च । नच द्रव्यजन्यतावच्छेदकतया सिद्धं जन्यसच्त्रम्, अवच्छिन्नसमवेतत्वं वा तज्जन्यतावच्छेदकम्, तथापि विनिगमनाविरहात् ॥ 6 9 किञ्च यद्विशेषयोः' इति नियमे मानाभावः, तस्याप्रयोजकत्वात् । न च कार्यसामान्यस्याभावे कुलालादिकृत्यभावकूटस्य प्रयोजकत्वे गौरवं कृतित्वावच्छिन्नाभावस्यैकस्य तथात्वे लाघवं तच्च कृतित्वस्य कारणतावच्छेदकत्वमन्तरा न सम्भवति, कारणतावच्छेदकधर्मावच्छिन्नाभावस्यैव कार्यतावच्छेदकधर्मावच्छिन्नाभावप्रयोजकत्वात्, तथा च लाघवमूलक एव " यद्विशेषयोः" इति नियम इति वाच्यं, यतः कारणतावच्छेदकधर्मावच्छिन्नाभाव एव कार्याभावे प्रयोजक इति न नियमः, किन्तु " स्वरूपसम्बन्धरूपप्रयोजकत्वं प्रतीत्यनुरोधेन लध्वनतिप्रसक्तधर्मावच्छेदेन कल्प्यते" इति नियमः, तथा च लाघवादेव कारणतावच्छेदक कृतित्वावच्छिन्नप्रतियोगिताकै काभावस्य कार्याभावप्रयोजकत्वं कृतित्वेन कार्यत्वेन कार्यकारणभावमन्तराऽपि सूपपादमेव । किञ्चैवं प्रायोगिकत्वमेव शैलादिव्यावृत्तं देवकुलाद्यनुवृत्तं सकलजनव्यवहारसिद्धं प्रयत्नजन्यतावच्छेदकमस्तु सम्भवति व्याप्यस्यावच्छेदकत्वे व्यापकस्य तत्प्रकल्पनेऽतिप्रसङ्गात् । यत्तु " घटत्वाद्यवच्छिन्ने कृतित्वेन
SR No.022431
Book TitleJagat Kartutva Mimansa Prakaranam
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year1944
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy