________________
( ३८ ) पि विलक्षणकृतित्वेनैव घटत्व-पटत्वाद्यवच्छिन्नं प्रति हेतुत्वात् । न च प्रवृत्ताविव घटादावपि ज्ञानेच्छयोरन्वयव्यतिरेकाभ्यां हेतुत्वसिद्धेः, तत्र घटत्व-पटत्वादीनामानन्त्यात् कार्यत्वमेव साधारण्यात् कार्यतावच्छेदकम् , शरीरलाघवमपेक्ष्य सङ्ग्राहकलाघवस्य न्याय्यत्वात् , कृतेस्तु "यद्विशेषयोः कार्यकारणभावोऽसति बाधके तत्सामान्ययोरपि", इति न्यायात् सामान्यतोऽपि हेतुत्वमिति वाच्यम् , एवं सति शरीरत्वेन चेष्टात्वेन च हेतुत्वान्नित्यशरीरचेष्टयोरपि सिद्ध्यापत्तेः । न च परमाणव एव प्रयत्नवदीश्वरात्मसंयोगजन्यचेष्टावन्त ईश्वरस्य नित्यानि शरीराणि, आचार्यैस्तथास्वीकृतत्वात् , चेष्टाया नित्यत्वे तु मानाभावः, अनित्यचेष्टाया अपि सर्गादौ सम्भवात् , ईश्वरप्रयत्नाधीनचेष्टावतां सर्वेषामेव वेश्वरशरीरत्वम् , अत एव सर्वावेशपरा सर्वाभेदश्रुतिरिति वाच्यम् , परमाणूनां नित्येश्वरशरीरत्वे तद्गतक्रियाया अपि नित्यायाश्चेष्टायाः कल्पनापत्तेः, सर्वावेशे च सर्वत्र क्रियामात्रस्य चेष्टात्वपर्यवसाने विलक्षणचेष्टात्वजात्युच्छेदापत्तेः, सर्वशरीरावच्छिन्नविलक्षणमनःसंयोगजनकप्रयत्नवदात्मसंयोगरूपसर्वावेशस्वीकारे च प्रत्यात्मनियतमनोभिन्नमनःप्रवेशेन सर्वेषामुन्मादजनकताया ईश्वरस्यापत्तेः, अन्यथाऽऽवेशपदार्थाघटनात् , " पुरुष एवेदम्" इत्यादावपि सर्वावेशनिबन्धः सर्वतादात्म्यव्यवहार इत्यपि न शोभते, किन्तु सर्वतादात्म्यप्रतिपादकश्रुतीनां सर्वविषयतारूपावेशपरत्वमेव निश्चयतः सर्वस्य सर्वज्ञत्वादिति, उपमामात्रस्य स.