________________
॥ ॐ अर्हम् नमः ॥ ॥ सर्वलब्धिसम्पन्नश्रीगौतमस्वामिने नमः ॥ सर्वतंत्रस्वतंत्र-शासनप्रभावक-सूरिचक्रवर्ति-जगद्गुरुतपागच्छाधिपति-प्रौढप्रभाव-प्रभूततीर्थोद्धारकश्रीमद्विजयनेमिसूरिभगवद्भयो नमः ॥
जगत्कर्तृत्ववादनिरासात्मकं ॥ जगत्कर्तृमीमांसाप्रकरणम् ॥
-~-S etप्रणौमि श्रीमहावीरं, छेत्तारं कर्मभूरुहाम् । मोक्षमार्गप्रवक्तारं, सुरेन्द्रेज्यक्रमाम्बुजम् ॥ १॥ भत्तया प्रणम्य गच्छेशं, श्रीनेमिसूरिपुङ्गवम् । कुर्वे कर्तृत्वमीमांसां, शिवानन्दाभिधो मुनिः ॥२॥
अथ सर्वेषां प्राणिनां श्रेयोमार्गावाप्तिमन्तरेण न निःश्रेयसाधिगम इति, तथा चोक्तं कलिकालसर्वज्ञेन श्रीहेमचन्द्रप्रभुणापरः सहस्राः शरदस्तपांसि,
युगान्तरं योगमुपासतां वा ॥ तथापि ते मार्गमनापतन्तो, न मोक्ष्यमाणा अपि यान्ति मोक्षम् ॥१॥ इति