SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ (१२) न धर्मधर्मित्वमतीव भेदे, वृत्त्याऽस्ति चेन्न त्रितयं चकास्ति ॥ इदमित्यस्ति मतिश्च वृत्तौ, न गौणभेदोऽपि च लोकवाधः ॥ ७ ॥ व्याख्या - नेति, धर्मधर्मिणोरतीव भेदे अतीवेत्यत्रेवशब्दो वाक्यालङ्कारे । तं च प्रायोऽतिशब्दात् किंवृत्तेश्च प्रयुञ्जते शाब्दिकाः । ततश्च धर्मधर्मिणोरतिभेदे एकान्तभिन्नत्वे अङ्गीक्रियमाणे धर्मधर्मित्वं न स्यात् । अस्य धर्मिणः इमे धर्माः एषां च धर्माणामयमाश्रयभूतो धर्मोत्येवं सर्वप्रसिद्धो धर्मधर्मित्र्यपदेशो न प्राप्नोति । एवमुक्ते सति परः प्रत्यवतिष्ठते । वृस्यास्तीति । अयुत सिद्धानामाधार्याधारभूतानामिह - प्रत्ययहेतुः सम्बन्धः समवायः । स च समवचनात्समवाय इति, द्रव्यगुणकर्मसामान्यविशेषेषु पंचसु पदार्थेषु वर्त्तनात वृत्तिः । तया वृत्या समवायसम्बन्धेन तयोर्धर्मधर्मिणोरितरेतर विनिलुंठितत्वेऽपि, धर्मधर्मिव्यपदेश इष्यते इति नानन्तरोक्तो दोष इति । अत्राचार्यः समाधत्ते । चेदिति यद्येवं तव मतिः सा प्रत्यक्षप्रतिक्षिप्ता । यतो न त्रितयं चकास्ति । अयं धर्मी, इमेsस्य धर्मा, अयं चैतत्सम्बन्धनिबन्धनं समवा
SR No.022430
Book TitleAnyayog Vyavacched Dwatrinshika
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy