SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ २९ ३० ३१ ३२ ३३. ३४ ३५ ३६ ३७ ३८ ३९ ४० m श्लोक हेतुना चेद्विना सिद्धिद्वैतं वाङ्मात्रतो न किम् ॥ अद्वैतं न विवा द्वैतादहेतुरिव हेतुना । संज्ञिनः प्रतिषेधो न प्रतिषेध्यादृते क्वचित् ॥ पृथक्तैकान्तपक्षेऽपि पृथक्त्वादपृथक्तु तौ । पृथक्ते न पृथक्तं स्यादनेकस्थो ह्यसौ गुणः ॥ संतानः समुदायश्च साधर्म्य च निरङ्कुशः । प्रेत्यभावश्च तत्सर्वं न स्यादेकत्वह्निवे ॥ सदात्मना च भिन्नं चेज्ज्ञानं ज्ञेयाद् द्विधाप्यसत् । ज्ञानाभावे कथं ज्ञेयं बहिरन्तश्च ते द्विषाम् ॥ सामन्यार्था गिरोन्येषां विशेषो नाभिलप्यते । सामान्याभावतस्तेषां मृषैव सकला गिरः ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥ अनपेक्षे पृथक्त्वैक्ये ह्यवस्तुद्वयहेतुतः । तदेवैक्यं पृथक्त्वं च स्वभेदैः साधनं यथा ॥ सत्सामान्यात्तु सर्वैक्यं पृथग्द्रव्यादिभेदतः । भेदाभेदाव्यवस्थायामसाधारणहेतुवत् ॥ विवक्षा चाविवक्षा च विशेष्येऽनन्तधर्मिणि । यतो विशेषणस्यात्र नासतस्तैस्तदार्थमिः । माणगोचरौ सन्तौ भेदाभेदौ न संवृती । तावेकाविरुद्ध. ते गुणमुख्यविवक्षया ॥ नित्यत्वैकान्तपक्षेऽपि विक्रियानोपपद्यते । प्रागेव कारकाभावः क प्रमाणं क्व तत्फलम् ॥ प्रमाणकारकैर्व्यक्तं व्यकं चेदिन्द्रियार्थवत् । ते च नित्ये विकार्यं किं साधोस्ते शासनाद्वहिः ॥ यदि सत्सर्वथा कार्यं पुवन्नोत्पत्तुमर्हति । परिणामप्रक्लृप्तिश्च नित्यत्वैकान्तवाधिनी ॥ पुण्यपापक्रिया न स्थात्प्रेत्यभावफलं कुतः । बंधमोक्षौ च तेषां न येषां त्वं नासि नायकः । पृष्ठ ३५. ३७. ३९ ३९. ४० ४१ ४१ ४२ ४३. ४६ ४७ ४८ ४९
SR No.022429
Book TitleAapt Mimansa
Original Sutra AuthorN/A
AuthorJaychand Chhavda
PublisherAnantkirti Granthmala Samiti
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy