________________
श्लोक बोधवाक्यं प्रमाणं न केन साधनदूषणम् ॥ विरोधानोभयेकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिनांवाच्यमिति युज्यते ॥ कथंचित्ते सदेवेष्टं कथंचिदसदेव तत् ! तथोभयमवाच्यं च नययोगान सर्वथा ॥ सदेव सर्व को नेच्छेत् स्वरूपादि चतुष्टयात् । असदेव विपर्यासान चेन व्यवतिष्ठते ॥ ऋमार्पितद्वयाद्वैतं सहावाच्यमशक्तितः । अवक्तव्योत्तराः शेषास्त्रयो भंगाः स्वहेतुतः ॥ अस्तित्वं प्रतिषेध्येनाविनाभाव्येकधर्मिणि । विशेषणत्वात्साधर्म्य यथा भेदविवक्षया ॥ नास्तित्वं प्रतिषेध्येनाविनाभाव्येकधर्मणि । विशेषणत्वाद्वैधर्म्य यथाऽभेदविवक्षया ॥ विधेयप्रतिषेध्यात्मा विशेष्यःशद्वगोचरः । साध्यधर्मो यथा हेतुरहेतुश्चाप्यपेक्षया ॥ शेषभंगाश्च नेतव्या यथोक्तनययोगतः । न च कश्चिद्विरोधोस्ति मुनीन्द्र ? तव शासने ॥ एवं विधिनिषेधाम्यामनवस्थितमर्थकृत् । नेति चेन यथाकार्य बहिरन्तरुपाधिभिः॥ धर्मे धर्मेऽन्य एवार्थो धर्मिणोऽनंतधर्मणः । अङ्गित्वेऽन्यतमान्तस्य शेषान्तानां तदङ्गता ॥ एकानेक विकलादावुत्तरत्रापि योजयेत् । प्रक्रियां भंगिनीमेनां नयैर्नयविशारदः ॥ अद्वैतैकान्तपक्षेऽपि दृष्टो भेदो विरुध्यते । कारकाणां क्रियायाश्च नैकं स्वस्मात्प्रजायते ॥ कर्मद्वैतं फलद्वैतं लोकद्वैतं च नो भवेत् । विद्याविद्याद्वयं न स्याद्वंधमोक्षद्वयं तथा ॥ हेतोरद्वैतसिद्धिश्चेद् द्वैतं स्याद्धेतुसाध्ययोः ।