________________
( ७४ ) __ 'यथोक्तोपपन्न छलजातिनि ग्रहस्थानसाधनोपालम्भो जल्पः इति सूत्रलक्षितो जल्पः, यथोक्तोपपन्न इत्यत्र यथोक्तेषु यदुपपन्न तेनोपपन्न इति मध्यमपदलोपीसमासः, प्रमाणतर्कत्वप्रकारकज्ञानविषयकरणकसाधनोपालम्भवत्त्वे सति पञ्चावयवोपपन्नत्वे सति छलजातिनिग्रहस्थानकरणकसाधनोपाम्भयोग्यो विप्रतिपत्तिकोटि साधनबाधनपरवचनसन्दर्भत्वं जल्पत्वमिति, एतेन उभयपक्षस्था. पनावती विजिगीषुकथाजल्पइतिलक्षणमपि ज्ञापितं भवति, अत्र चायं क्रमः
__ वादिना स्वपक्षसाधनं प्रयुज्य नायं हेत्वाभासस्तल्लक्षणायोगादिति सामान्यतो नायमसिद्ध इत्यादि विशेषतो वा, प्रतिवादिना स्यस्याज्ञानादि निरासाय परोक्तसम्भवादेव लाभे उच्यमान ग्राह्याणामप्राप्तकालार्थान्तरनिरर्थकानामलामे उक्तग्राह्याणां प्रतिज्ञाहानि प्रतिज्ञान्तर-प्रतिज्ञाविरोध-प्रतिज्ञासन्न यास-हेत्वन्तराविनातार्थविक्षेप-मतानुज्ञा-न्यूनाधिक-पुनरुक्त-निरनुयोज्यानुयोगापसिद्धान्ता. नामलाभे पर्यनुयोज्योपेक्षणस्य मध्यस्थोद्भाव्यत्वादेवानुपन्यासाह. तया यथासम्भव हेत्वाभासेन परोक्तं दूषयित्वा स्वपक्ष उपन्यसनोयः ततो वादीना तृतीयकक्षाश्रितेन परोक्तमनुद्यस्वपक्षदूषणमुद्धृत्या. नुक्तिग्राह्योच्यमानग्राह्यहेत्वाभासातिरिक्तोक्तग्राह्याणामलामे हेत्वा भासे न यथासम्भवं प्रतिपक्षवाविनः स्थापना दूषणीया, अन्यथा क्रमविपर्यासे अप्राप्तकालम्, अनवसरे दूषणोद्भावने च निरनु योज्यानुयोगः, यथा त्यक्षसि चेत् प्रतिज्ञाहानिः, विशेषयसिचेद्धत्वन्तरमित्यादि, प्रतिज्ञाहान्यादिवद्धत्वाभासानामुक्तग्राह्यत्वा.