SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ( ७३ ) प्रमाणसहकारित्वरूपसाधर्म्यात् तथा व्यवहार इति । निर्णय इति, 'विसृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः' इति सूत्रात् साधनोपालम्भाभ्यां सन्दिह्यार्थस्यावधारणं तदभावाप्रकारकं तत् प्रकारक ज्ञानं निर्णय इति निर्णयलक्षणं यद्यपि लभ्यते तथापि तदभावप्रकारकं ज्ञानं निर्णय इत्यर्थकमर्थावधारणं निर्णय इत्येव लक्ष्य लक्षणप्रतिपादकं वचनम्, विमृश्येत्यादिकं तु जल्पवितण्डास्थली यनिर्णयमधिकृत्य, तदुक्तं भाष्ये शास्त्रे वादे च विमर्शवर्जमिति । वादजल्पाभ्यां वितण्डेति कथा त्रयमिति वादो जल्पो वितण्डा चेति कथा त्रयं त्रिविधा कथेत्यर्थः, तत्र वादः " प्रमाणतर्कसाधनोपालम्भ: सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहोवाद:' इति सूत्रलक्षितः, पक्षप्रतिपक्षौविप्रतिपत्तिकोटी, प्रमाणतर्कसाधनोपालम्भः इत्यस्य प्रमाणतर्करूपप्रकारकानाहायज्ञानविषयकरणक साधनदूषणकरम्बित इत्यर्थः एतच्च जल्पविशेषातिव्याप्तिवारकं, सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः इति विशेषणद्वयश्व वादे निग्रहस्थानविशेष नियमार्थम् तथा च प्रमाणत्वतर्कत्वप्रकारकाना'हार्यज्ञानविषयकरणक साधनदूषणकरम्बितत्वे सति सिद्धान्ताविरुद्धत्वे सति पश्चावयवोपपन्नत्वे सति विप्रतिपत्तिकोटिसाधनोदृश्यकोक्तिप्रत्युक्तिरूपवचनसन्दर्भत्वं वादत्वमिति पर्यवसितम्, अत्र स्वबुभुत्सवः प्रकृतोक्तिका अपिलम्भका यथा कालस्फूर्तिका नाक्षेपका युक्तिसिद्धप्रत्येतारोऽधिकारिणः, अनुविधेयस्थेयसभ्य पुरुषवती जनतासभा वीतरागकथत्वेन वादे नावश्यकी अनुविधेयो राजादिः, स्थेयान् मध्यस्थः ॥
SR No.022428
Book TitleShaddarshan Darpanam
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1976
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy