SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ( ३४ ) पुरुषश्च कुटस्थ नित्योऽकर्त्ता चैतन्यलक्षणः, ततः मूलप्रकृत्यादि चतुर्विंशतितत्त्वेभ्यः भिन्नः कस्यापि कारणत्वाभावात् प्रकृतिर्न भवति, कस्यापि कार्यत्वाभावाद विकृतिश्च न भवति, तदुक्तम्'मूलप्रकृतिरविकृति महदाद्याः प्रकृति विकृतयः सप्त । atsara विकारो न प्रकृति नं विकृतिः पुरुषः || १ || इति अत्र महच्छन्दवाच्या बुद्धिः घटः पट इत्याद्यध्यवसायलक्षणा, अहं सुभगोऽहं दर्शनीय इत्याद्याकारोऽहङ्कारः, सङ्कल्पलक्षणं मनः, यथा कस्यचिद् बटो ग्रीमान्तरे भोजनमस्तीति शृण्वतः सङ्कल्पः स्यात् यास्यामि किं तत्र दधिस्यादुत दुग्धमिति, श्रोत्रत्वक्चक्षुजिह्वाप्राणानि पञ्चज्ञानेन्द्रियाणि, वाक्पाणिपादपायूपस्थसंज्ञकानि पञ्चकर्मेन्द्रियाणि, उभयात्मकन्तु मनः, महदादयश्व प्रधानात् प्रवर्त्तमाना न कारणादत्यन्तभेदिनो भवन्ति, किन्तु गुण्यादिना प्रधानात्मान एव, तथाहि यथाप्रधानं त्रिगुणात्मकं तथा बुद्धयहङ्कारतन्मात्रेन्द्रियभूतात्मकं व्यक्तमपि त्रिगुणात्मकम्, कृष्णादितत्वारब्धपटादेः कृष्णादित्वस्यैवोपलम्भेन कारणगुणानुरूपगुणस्यैव कार्यस्य सिद्धेः, किञ्च इमे सत्त्वादयोगुणा इदं च महदादिव्यक्तमितिन शक्यते विवेक्तुम्, किन्तु ये गुणा स्तद् व्यक्तं यद् व्यक्तं ते गुणा इत्यविवेकच वोभयम्, तथोभयमप्यविशेषतो विषयो भोग्यस्वभावत्वात् सर्वपुरुषाणामविशेषेण भोग्यत्वात् पण्यखीवत्, अचेतनं च सुखदुखमोहावेदकत्वात्, प्रसवर्धा च यतः प्रधानं बुद्धि सामान्यं च जनयति, साप्यहङ्कारम्, सोऽपि तन्मात्राणीन्द्रियाणि च तन्मात्राणि च महाभूतानि जनयन्तीति तस्मात् त्रैगुण्यादिना तद्रूपा एवं कार्यभेदाः प्रवर्त्तन्ते, तदुक्तम् 1
SR No.022428
Book TitleShaddarshan Darpanam
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1976
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy