SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ( ३३ ) गुरुवरणकमेवतमः प्रदीपवच्चार्थतो वृत्तिः ॥१॥' इति यथा वत्तिनैलाग्नयः परस्परविरुद्धस्वभावा अपि दीपरूपेण परिणताः परस्परोपकारिणः सन्तः प्रकाशलक्षणमर्थक्रियांकुर्वन्ति तथा लाघवोपष्टम्भकगौरवेति परस्परविरुद्धस्वभावा अपि सत्त्वरजस्तमो गुणाः साम्यावस्थालक्षणप्रकृतिस्वरूपतामापन्नाः परस्परसहकारिता भजन्तः पुरुषार्थ निवर्तयन्ति, प्रकृतिश्च नित्यत्वान्नकस्यापि विकृतिः, प्रकृति-विकृतयः सप्त, महदङ्कार-पञ्चतन्मात्राणि सप्तप्रकृतिविकृतयः प्रकृते महत्तत्त्वं बुद्धिरुत्पद्यते, बुद्धेश्चाहङ्कारोऽहङ्कारात् पञ्चतन्मात्राणि शब्दस्पर्शरूपरसगन्धात्मकानि इन्द्रियाणि चंकादशोत्पद्यन्त इति बुद्धिरहङ्कारकारणत्वात् प्रकृतिः मूलप्रकृतिकार्यत्वाद् विकृतिश्च, अहङ्कारोऽपि पञ्चतन्मात्रैकादशेन्द्रियकारणत्वात् प्रकृति बुद्धिकार्यत्वाद्विकृतिः, पञ्चतन्मात्रेभ्यश्च पञ्चभूतान्युत्पद्यन्ते यथा शब्दतन्मात्रादाकाशं शब्दगुणं, शब्दतन्मात्रसहितात् स्पर्शतन्मात्राद् वायुः, शब्दस्पर्शगुणः, तद्वयसहिताद् रूपतन्मात्रात् तेजः, शब्दस्पर्शरूपगुणं, तत्त्रितयसहिताद रसतन्मात्राद् आपः,शब्दादिचतुर्गुणा गन्धतन्मात्राच्छन्दतन्मात्रादिसहिताच्छब्दादिपञ्चगुणा पृथिवीति, पञ्चतन्मात्रापि पञ्चभूतकारणत्वात् प्रकृतिः, अहङ्कारकार्यत्वाच्च विकृतिरिति, षोडशकश्च विकारःएकादशेन्द्रियाणि पञ्चभूतानि पञ्चतन्मात्रकार्यत्वाद् विकारो विकृतिः, तत्त्वान्तरस्य कारणस्वाभावाच्च प्रकृतिस्तु न भवति तदुक्तंप्रकृते महान् महतोऽहङ्कार स्तस्माद्गुणश्च षोडशकः । तस्मादपि षोडशकात् पञ्चभ्यः पञ्चभूतानि ॥१॥ इति
SR No.022428
Book TitleShaddarshan Darpanam
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1976
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy