SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ ( ३ ) ॥ अथ जैन दर्शनम् ॥ प्रमाणे द्वे नयाः सप्त, सप्त तत्त्वानि वा नव ॥ निःक्षेपा जैनराद्धान्ते, चत्वारः कथिता बुधः ॥६॥ जिनः रागद्वेषमोहक्रोधरहितः केवलज्ञानदर्शनवान् सुरासुरेन्द्रपूज्यः सद्भूतार्थोपदेशकः कृत्स्नकर्मक्षयात् परमानन्दस्वरूपावाप्तिलक्षणमोक्षपदो देवो येषां ते जैनास्तेषां राद्धान्ते सिद्धान्ते जनदर्शने इति यावत्, बुधैः जैनसिद्धान्तः, कथिताः कीर्तिताः, के इत्याकाङ्क्षानिवृतये प्रमाणे द्वे इत्यादि स्पष्टम् ॥ प्रमाणाधीना हि सकलपदार्थव्यवस्थेति प्रमाणस्य प्रथममुद्देशः, अत एव सप्ततत्त्वेषु नव तत्त्वेषुवाऽवश्यमन्तभूतस्य प्रमाणस्य पृथगुद्देशः, अनन्तधर्मात्मकवस्त्ववगाहित्वात् तत् सिद्धिनिबन्धनमपि प्रमाणं विधिनिषेधरूपत्वेन परस्परविरुद्धानामनन्तधर्माणामेकत्राऽवस्थानलक्षणाविरोधनिमित्तापेक्षाभेदाधिगतये वस्त्वेकदेशावगाह्यभिप्रायविशेषरूपानयानपेक्षत इति प्रमाणसहकारित्वात् यस्य पृथगुद्देशः, प्रमाणनयैरधिगम्यानां तत्त्वानां तदनन्तरमशः, तत्वानां नाम-स्थापना-द्रव्य-भावनिक्षेपैश्चतुःप्रकारता सुव्याख्येयेति व्याख्याङ्गत्वान्निक्षेपस्य तदनन्तरमुद्देश इति ॥६॥ ___ यद्यपि प्रकर्षेण संशयाधभावस्वभावेन मीयते परिच्छिद्यते वस्तु येन तत् प्रमाणमिति व्युत्पत्त्या संशयाद्यनात्मकवस्तुनिश्चयकरणं प्रमाणमिति सामान्यतःप्रमाणशब्दतःप्रमाणलक्षण भवगम्यते, तथापि तत् सन्निकर्षेन्द्रियादिकमज्ञानस्वरूपमेवेति नैयायिकाः, निविकल्पज्ञानमपिप्रमाणमिति बौद्धाः अर्थमात्रव्यवसायिज्ञानं
SR No.022428
Book TitleShaddarshan Darpanam
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1976
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy